पुनरुपनयन निमित्तानी ४५

 ४५ पुनरुपनयन निमित्तानि -


जिस कारणो वा अपराध से द्विजो विशेष ब्राह्मण का द्विजत्व नष्ट होता हैं पुनः द्विजत्व की प्राप्ति हेतु पुनरुपनयन निमित्तो को जानना आवश्यक हैं । कलियुग में उपनेतृ लक्षण वाले आचार्य मिलना दुर्लभ हैं  किसी का उपनयन यदि आचारनिष्ठ स्वशाखावलम्बी आचार्य के द्वारा सम्पन्न हो गया तो इस निमित्तो के ज्ञान होनेपर उसे इन्हीं अपराध वा कृत्य से दूरी बना लेनी चाहिये अथवा तो करे ही नहीं। जिसका द्विजत्व नष्ट होता हैं उसका प्रायश्चित्त पुनरुपनयन तक  समस्त द्विजकर्मो को करने में  अधिकार भी चलायमान हो जाता हैं , इसलिये संस्कार रत्नमाला में गोपीनाथजी भट्ट ने कर्मलोपभयाद्रात्रावपि पुनरुपनयन करने को कहा हैं। जो शाखारण्ड नहीं उसे सप्रायश्चित्त पुनरुपनयन तक नित्यसन्ध्योपासना का अधिकार हैं अन्य द्विजकर्मो का नहीं ।


अथ पुनरुपनयन निमित्तानि 


(१) नारदः -  विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे। अपराह्णे चोपनीतः पुनः संस्कार मर्हति ।।"अपराह्ण स्त्रिधा विभक्तदिनतृतीयांशः। वसन्ते गलग्रहो न दोषायेत्यर्थः।। नारदः - कृष्णपक्षे चतुर्थी च सप्तम्यादि दिनत्रयम्। त्रयोदशी चतुष्कं च अष्टावेते गलग्रहाः।।


(२)  अपराह्णे चोपनीतः पुनः संस्कारमर्हति।।==========(मदनरत्ने नारदः)

सर्वदेशेषु पूर्वाह्णे मुख्यं स्यादुपनायकम्। 

मध्याह्ने मध्यमं प्रोक्तपराह्णे तु गर्हितम्।।======(ज्योतिर्मानवे, वीरमित्रोदये संस्का०मनुः )


(३) तारा चन्द्रानुकूलेषु ग्रहाब्देषु शुभेष्वपि। 

पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हति।।==========(राजमार्तण्ड) केवल ऋक्सामशाखीयानाम् ।।


(४) वसिष्ठः - पापांशकगते चन्द्रे अरिनीचस्थितेपि च। अनध्याये चोपनीतः पुनः संस्कारमर्हति।।अनध्यायस्य पूर्वेद्युस्तस्य चैवापरेहनि। व्रतबन्धं विसर्गं च विद्यारम्भं न कारयेत्।।


(५) शौनकः - सन्ध्यातिक्रमणंयस्य सप्तरात्रमपिच्युतम्।  उन्मादादोषयुक्तोपि 

पुनः संस्कार मर्हति ।।


(६) पारिजाते शातातपः - 

लशुनं गृञ्जनं जग्ध्वा पलाण्डुं च तथा शुनम् । उष्ट्रमानुषकेभाश्वरासभीक्षीरभोजनात्।। उपानयं पुनः कुर्यात्तप्तकृच्छ्रं चरेन्मुहुः।।


(७) हेमाद्रौ मनुः - जीवन्यदि समागच्छेद्घृतकुम्भे निमज्ज्य च। उद्धृत्य स्नापयित्वास्य जातकर्मादि कारयेत्।।


(८) पाद्मे - 

प्रेतशय्या प्रतिग्राही पुनः संस्कारमर्हति।। 


(९) बोधायनचंद्रिका - 

सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः। अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति ।।

हेमाद्रि आदित्यपुराणे कलिवर्ज्य प्रकरण - द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रह:।।  बृहन्नारदीय पुराणे - समुद्रयातु स्विकारः धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः।।


गौतम - सौराष्ट्रसिंधु सौवीरमवन्तीदक्षिणापथम्। एतानि ब्राह्मणो गत्वा पुनः संस्कारमर्हति।। 


देवल - सिन्धु सौवीर सौराष्ट्र तथा प्रत्यन्तवासिनः। कलिंगकोंकणान् बंगान् गत्वा  संस्कारमर्हति।।


बोधायन - अंग बंग कलिंगेषु सौराष्ट्रमगधेषु च। तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति।। 


(१०) गौतम - 

खरमुष्ट्रञ्च महिषमनड्वाहमजं तथा। बस्तमारुह्य मुखजः क्रोशे चान्द्रं विनर्दिशेत्।। 

(११) मार्कण्डेय - 

खरमारुह्य विप्रस्तु योजनं यदि गच्छति। तप्तकृच्छ्रत्रयं प्रोक्तं शरीरस्य विशोधनम्।।


(१२) मनुः - 

अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च। पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः।। 


(१३) पराशरः - 

यःप्रत्यवसितो विप्रः प्रवज्यातो विनिर्गतः। अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति।।सञ्चरेत् त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च। जातकर्मादिभिः सर्वैः संस्कृतःशुद्धिमाप्नुयात्।।


(१४) त्रिस्थलीसेतौ - 

कर्मनाशाजलस्पर्शात्करतोयाविलंघनात्। गण्डकी बाहुतरणात् पुनः संस्कारमर्हति।।


(१५) निन्दितार्थोपजीवन प्रायश्चित्त -    

                       (ब्राह्मण)

[कूर्मपुराणे]- अश्वो, धेनुः, महिष्यश्च, रासभः,कुञ्जरस्तथा । 

क्रीणन् नरकमाप्नोति विप्रो यद्यन्न विक्रयी ।। 

कन्या, नारी, अजावस्तौ, पुत्रकं, #ब्रह्मसूत्रकम्। 

लवणं, लशुनं, चर्म्मं, पलाण्डुं, गृञ्जनं तथा ।। 

शुण्ठी, पिप्पलि, मारीच, लवङ्गैला, हरिद्रका ।

ओषधानीह यावन्ति मत्स्य, कुक्कुट, सूकराः।। 

हिङ्गु, जीरकवस्तूनि, ताम्रं, कांस्याविकं तथा ।

एतान् मूल्यैः द्विजः क्रीत्वा सुलभैर्मूल्यसंख्यया ।।

तेभ्यश्च द्विगुणैर्मूल्यैरल्पमूल्यैरथापि वा । विक्रीयलाभगणनं कुर्याद्यदि स पापभाक् ।। मृत्वा नरकमासाद्य कृमिकूपे पतत्यधः। तस्माद्देहविशुद्ध्यर्थं प्रायश्चित्तमिहोच्यते ।।

सकृत्कृत्वा तद् द्विवारञ्च चतुर्वारमनेकशः। तप्तं पराकं च चान्द्रं च ,यावकं वर्षमाचरेत् ।।

( सकृत् - तप्तकृच्छ्र,  द्विवार - पराक,  चतुर्वार- चान्द्रायण, अनेकवार वा संवत्सरव्यतिते - यावक) तदन्ते

पुनः #तस्योपनयनं_भूयः_पञ्चगव्येन_शुद्ध्यति ।।

 (तत्प्रायश्चित्ते पुनःसंस्कारे च पराङ्गमुखः स अयाज्यो भवति)


(१६) परार्थं(व्रात्यर्थं , अनुपनीतार्थं, शाखारण्डार्थं )गायत्रीजपकर्तॄणां प्रायश्चित्त -> [ब्रह्माण्डपुराणे] यथार्थं श्रृणु राजेन्द्र परार्थं जपकृन्नरः। होमार्थं द्रव्यलोभार्थं सवै पाखण्डतां व्रजेत्।। 

[गुरुडपुराणे] #ब्राह्मणो_धनलोभेन परार्थं वेदमातरम्। जप्त्वा नरकमाप्नोति तं कदा नालपेद्बुधः।। 

[कूर्मपुराणे] वेदमाता च गायत्री जपतां पापनाशनी । परार्थं तां जपेद्यस्तु स नरो #मातृघातकः।।

[महाभारते] वेदमाता तु गायत्री लोकमाता च जाह्नवी । तयोर्यदि द्विजो भक्त्या नित्यं सेवेत बुद्धिमान् ।। तयोरेकां परित्यज्य परार्थं जनवल्लभ । स दिवाकीर्त्तितुल्यः स्यात् कृत्वा नरकमश्नुते । तदन्ते भुवमासाद्य पादलम्बी दिवान्ध्यवान् ।। तस्य निष्कृतिरत्रैव दृष्ट्वा श्रुतिपरायणैः। #दशकृज्जपतोदेव्याः परार्थं कृच्छ्रमीरितम् ।। #शतं परार्थजपतः पराकं परिकीर्त्तितम् । #सहस्रसंख्यया$न्यार्थं शुद्ध्यर्थं चान्द्रमाचरेत्।#अयुतं_नियुतं_वापि_परार्थं_धनलोभतः। #जपतस्तस्य_कर्माणि_सद्यः_शीर्यन्ति_देहतः।। (पुनः) #तस्योपनयनं_भूयः_चान्द्रायणचतुष्टयम्। औपासनाग्नेः सन्धानं गायत्रीदानमेव च । केशानां वपनं कृत्वा पञ्चगव्यन्ततः परम् ।। परार्थं यावती संख्या गायत्रीं प्रणवात्मिकाम्। पुनः स्वार्थं जपेत्पश्चात् ततः शुद्धिमवाप्नुयात् ।। एवं कृत्वा द्विजः शुद्ध्येदन्यथा जलकाकवत् । तस्य जन्म वृथा लोके नामधारणमात्रतः (द्विजत्वभ्रष्टे नाममात्र जातिः)।। [तत् प्रायश्चित्ते पुनःसंस्कारे च पराङ्गमुखः स अयाज्यो भवति]


(१७) #गोमुखजनन_धेनुप्रतिग्रह_प्रायश्चित्त।।

चतुर्वर्ग  चिंतामणि प्रा०खंडे हेमाद्री---> "(स्वजातिं प्रसवं त्यक्त्वा अन्यनारी प्रसूयते। तदा प्रभृत्यसौधेनुः सर्वपापविवर्द्धिनी। तस्मादेनां द्विजोधृत्वा सद्यः पातित्यमर्हसि।मृतो नरकमाप्नोति पुलिन्देष्वभिजायते।। (पुनः) *#तस्योपनयनं भूयः* कार्यो चान्द्रायणत्रयम्।एषा निष्कृतिरस्येह नाऽन्यथाशुद्धिरिष्यते।। 


पुनरुपनयनान्ते चान्द्रायणत्रयम् ।। तत् पुनःसंस्कारे प्रायश्चिते च पराङ्गमुखः स अयाज्यो भवति।


(१८) मत्स्य पुराणे, - विप्रोलोभपरीतात्मा मृततल्पं भजेद्यदि । नित्यं नैमित्तिकं काम्यं तदा चरति सर्व्वथा ॥ नित्यनैमित्तिकाभावात् पतितः स्यात् तदा द्दिजः । गर्भाधानादिसंस्काराः पुनः 'कार्य्या दिजातिभिः ॥ ततः परं चरेत्कृच्छ्रं दिशतं तप्तसंज्ञितम् । ततः पूतोभवत्येव कमार्होलोकयोर्द्वयोः ॥ अन्यथा निष्कृतिर्नाऽस्ति आधानक्रतुभिर्विना । प्रधानं सम्परित्यज्य प्रायश्चित्तं समाचरेत् || अन्यथा स्यात् स दुष्टात्मा उलूकोनिर्जने वने।।


(१९) अयाज्य याजिनः प्रायश्चित्त

[स्कन्दपुराणे] याजयन् यजने$योग्यान् विप्रोवृत्त्यर्थमादरात्। अन्यथाभावमाप्नोति न कर्मार्हो भवेदिह ।। यजने अयोग्यो याजने अनर्हः 

[कूर्मपुराणे] देवलकश्च गणको व्रात्यो दुःशीलवान् जनः। शूद्रापतिः कर्महीनः लोकोकुत्सितवृत्तिमान्।। महापातकिनः सङ्गी क्षयरोगी भगन्दरी। दुश्चर्मा शूद्रसेवी च भिषक्शूद्रान्नभक्षकः।। वृथातुलादिसंग्राही मर्यादाघातकस्तथा। ग्रामदाही ग्रामणीश्च तथा दुःसङ्गवान् जनः।। 


देवलको - जीवनार्थं ग्रामदेवतार्चकः, गणकी राष्ट्रेषु धनधान्यादि लेखयेत् स गणकः, नित्यसन्ध्योपासनारहितो च उपनयनपरम्परारहितो स व्रात्यः, शूद्रापतिः स्पष्टः, विहितकर्म परित्यज्य व्यवहारकमनुवर्तयन् कुत्सितवृत्तिः परेषामन्नपचनादिकं एताः कर्महीनाः,  विदेशयात्री च महापातकिनस्तत्संसर्गी, भिषक् - पारदादिनिर्मित रसविक्रयी, क्रीतान्नभोजी तथा च शूद्रकृतेषु सत्रेषु भोजी स शूद्रान्नभोजी , पुनरुपनयननिमित्तानि प्रायश्चित्ते पुनःसंस्कारे च पराङ्गमुखः, इष्टापूर्तादि धर्मकार्यविना तुलादानद्रव्यसंग्रही, पितरं ज्येष्ठभ्रातरं त्यक्त्वा आन्दोलिकाद्यारोहणं यः करोति स मर्यादाघातकः,  ग्रामदाही ग्रामणीश्च स्पष्टः,  अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिनः।। एताः दुर्जनैः आततायिभिः संसर्गवान् एते न कर्मार्हाः  अयाज्याः एतेषां वैदिक(श्रुतिमंत्रैः) याजने प्रायश्चित्तमाह --> 

[वामनपुराणे] अनर्हेषु च यो विप्रो कारयेल्लोभतः क्रतुम्। स प्रायश्चित्तहीनश्चेद भुवि पाखंडतां व्रजेत् ।। वेदशास्त्रानुसारिणः विप्रान् दृष्ट्वा निन्दन्ति पिता माता वा (स्ववेदशाखायां) येन मार्गेण वर्त्तयति  तन्मार्गमुत्सृज्य  (स्ववेदशाखां त्यक्त्वा परशाखायां संस्कृतो वा प्रथमपरशाखाध्यायी स शाखारण्डः परशाखायां उपनयने षोडशवर्षव्यतिक्रान्ते व्रात्यः) तप्तमुद्रादिधारिणो ये विप्रास्ते पाखण्डाः तदेवाहः - मनुः अधर्माणाञ्च व्रात्यानां भिषजामाततायिनाम्। यज्ञेषु ये याजयन्ति पाखण्डान् भणत्यहो ।। 


[लिंगपुराणे] अनर्हाणान्तु ये यज्ञे ते पाखण्डा उदाहृताः।। [कूर्मपुराणे] #अनर्हाणामध्वरेषु_ये_ब्रह्मऋत्विजादयः। #तेषां_पापविशुद्ध्यर्थं_षडब्दं_कृच्छ्रमीरितम्। #केशानां_वपनं_कृत्वा_पुनःसंस्कारमाचरेत् ।। पञ्चगव्यं पिबेत्पश्चात् शुद्धोभवति नान्यथा ।। 

एतेभ्यः अयाज्ययाजिभ्यः प्रतिग्रहेभ्यः प्रतिग्रहे दोषमाह -> अनर्हाणामध्वरेषु सोमपानादिकं चरेत् । तस्मात् प्रतिग्रहं कृत्वा प्रायश्चित्तादरो यदि । एतत्पापफलं भुंक्ते एकं चान्द्रायणं चरेत् । प्रायश्चित्ते कृते पश्चाद् अतोदोषोन विद्यते ।। (तत् प्रायश्चित्ते पुनःसंस्कारे च पराङ्गमुखः स अयाज्यो भवति)


(२०) (रजस्वलान्नभोजन प्रायश्चित्त)-- 

[देवलः] रजस्वलान्नं यो भुंक्ते द्विजो ज्ञानात् सकृद् यदि । रौरवं नरकं याति स भवेत् सद्विगर्हितः।। ऋतुमत्यज्ञानात् पचनादिकं कृत्वा भुक्त्यन्तरं ईषत् "शुष्कं रजो दृष्ट्वा अहो रजस्वला भवामीति " ज्ञात्वा अपसरति । तदपसरणे सर्वे भुक्तवन्तो रजस्वलान्नभोक्तारः । तेषां भोक्तॄणां पुनरुपनयन चान्द्रायणाभ्यां विना शुद्धिर्नास्ति ।  

[मार्कण्डेय] अज्ञात्वा पुष्पिणी नारी कृत्वा वै पचनक्रियाम् । पश्चात् शुष्कं रजोदृष्ट्वा तस्माद्देशादपक्रमेत् ।। तां दृष्ट्वा भाषणं श्रुत्वा भोजनं द्विजनायकाः ।। कृत्वा (पुनरुपनयनं)शुद्धिमवापुस्ते व्रतचान्द्रे विधाय च । पञ्चगव्येन शुद्धाः स्युरन्यथा पापिनो$भवन् ।।

(तत् पुनःसंस्कारे प्रायश्चित्ते च पराङ्गमुखः स अयाज्यो भवति)


(२१) (सूर्य-चन्द्रग्रहणे  भोजन प्रायश्चित्त)-

[देवलः] सूर्यसोमोपरागे च उक्तकालं विना द्विजाः। तदन्नं मांसमित्याहुः तद्भुक्त्वा मांसभुग्भवेत् ।। 

[मरीचिः] सूर्यग्रहे तु नाश्नीयात् पूर्वं यामचतुष्टयम्। चन्द्रग्रहे तु यामांस्त्रीन् भुक्त्वा पापं समश्नुते ।। इमं धर्मं परित्यज्य यो विप्रस्त्वन्यथाचरेत् ।। (पुनः) #तस्योपनयनं भूयस्तप्तं सान्तपनं स्मृतम् । (सूर्यग्रहभोजने तप्तं चन्द्रग्रहणे सान्तपनम् ) 

तदेवाह [मनुः] सूर्योपरागे यो भुंक्ते तस्य पापं महत्तरम् । तस्य पापविशुद्ध्यर्थं तप्तकृच्छ्रमुदीरितम् । चन्द्रोपरागकाले भुक्त्वा कायं समाचरेत् ।। उभयोर्भोजने विप्रः पुनः संस्कारमर्हति ।।

{ तत् प्रायश्चित्ते पुनःसंस्कारे च पराङ्गमुखः स अयाज्यो भवति}

(२२) (मनुष्य, पशुपक्ष्यादिमलमूत्र पान-भक्षण प्रायश्चित्त )-

{देवलः} मनुष्यस्य खरस्यापि सूकरस्य द्विजन्मनः। मलमूत्रं पिबेद्यस्तु #रेतो वा रोगपीड़ितः।। स तु पश्चात् पुनःकर्मं कृत्वा शुद्धिमवाप्नुयात्।। 

{गौतमः} आतुरोरोगमुक्त्यर्थं खरमानुषसूकराः। एतेषां मलमूत्रञ्च पीत्वा #तप्तकृच्छ्रं चरेत् सुखी। अनातुरः पुनःकर्म कृत्वा शुद्धिमवाप्नुयात्।। 

{जाबालिः} द्विजः पीत्वा मलं मूत्रं खरमानुषयोः किटेः। अगदोदेहशुद्ध्यर्थं पुनःकर्मपुरःसरम्।। #तप्तकृच्छ्रं चरेत् सम्यक् रोगी तप्तं समाचरेत्। एतेन शुद्धिमाप्नोति न चान्यैः कर्मभिद्विजः।। 

{यमः} द्विजोज्ञान्मलं मूत्रं खरमानुषयोः किटेः। मयूरहंसगृध्राणां सकृद्भुक्त्वा तु पातकी । पुनःकर्म प्रकुर्वीत तप्तकृच्छ्रविशोधनम्। रोगिणो न पुनःकर्मं कृच्छ्रमात्रमुदीरितम्।। सुखी भूत्वा पिबेद्गव्यं नारीणामर्द्धमीरितम् । यतीनां ब्रह्मचारिणां विधवानां द्विरावृतम् ।।

[स्वस्थद्विजो निमित्तेषु पुनःकर्म(पुनरुपनयने) पराङ्गमुखः स अयाज्यो भवति]

(२३) (खरोष्ट्रहरिणीमृतवत्सागवीक्षीरपानादि प्रायश्चित्त)- 

उष्ट्रक्षीरं मृगक्षीरं सान्धिन्यं यामलं तथा । मुखेनोदकपानञ्च मृतवत्सापयस्तथा । पिबेद् द्विजः  सकृन्मोहाद् यदि वा महिषीपयः।।  (पुनः) #तस्योपनयनं भूयस्तप्तकृच्छ्रं विशोधनम्। मृत्वत्सापयः(मृतवत्साया गोः पयः), मुखेनोदकपानं(हस्तेन विनेत्यर्थः)

{मार्कण्डेयः} मृतवत्सापयः पीत्वा मुखे पीत्वा जलं द्विजः। उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति।। 

{गौतमः} मृतवत्सापयः पीत्वा मुखे पीत्वा जलं द्विजः। उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति।। 

{गौतमः} सान्धिन्यं यामलं दुग्धमुष्ट्रक्षीरञ्च मार्गजम् । खरोष्ट्रयोः पयः पीत्वा #पुनःसंस्कारमर्हति ।। पश्चाद्देहविशुद्ध्यर्थं तप्तकृच्छ्रं समाचरेत्। एतेन शुद्धिमाप्नोति नान्यथाशुद्धिरिष्यते।। 

{प्रजापतिः} खरोष्ट्रश्च सान्धिन्यं यामलं मार्गजं तथा। #केवलं_महिषीदुग्धं_द्विजः_पीत्वा_पतत्यधः ।(पुनः)  

#तस्योपनयनं भूयस्तप्तकृच्छ्रेण शुद्ध्यति।। विधवानां ब्रह्मचारिणां सन्यासिनाञ्च पूर्ववद्विगुणं प्रायश्चित्तं वेदितव्यम् । औषधार्थं खरोष्ट्रयोः क्षीरपाने तप्तकृच्छ्रमात्रं न पुनःसंस्कारः । 

{गौतमः} औषधार्थं द्विजः पीत्वा दुग्धं खरक्रमेलयोः। तप्तकृच्छ्रं चरेत् पश्चात् पुनःकर्मं न गौरवात् ।।

(स्वस्थद्विजो निमित्तेषु दुग्धपाने पुनःसंस्कारे प्रायश्चित्ते च पराङ्गमुखः स अयाज्यो भवति )


(२४) प्रायश्चित्तेन्दुशेखरः- "स्त्रियाः क्षीरं द्विजः पीत्वा कथंचित्काममोहतः। पुनः संस्कृत्य चाऽऽत्मानं प्राजापत्येन शुद्ध्यति।।


(२५) (शूद्रभाण्डोदक भोजनप्रायश्चित्त )- 

{देवलः}अतीव तृषितोविप्रो न शूद्रोस्योदकं पिबेत् । तद्भाण्डभोजनं चैव अज्ञानाद्यदि मार्गतः। (पुनः) #तस्योपनयनं भूयस्तप्तकृच्छ्रेण शुद्ध्यति । 

{पराशरः} शूद्रभाण्डोदकं पीत्वा #प्रपायामुदकं तथा । शूद्रभाण्डस्यमन्नञ्च भुक्त्वा$शुद्धः सदा द्विजः।। #तस्योपनयनं भूयस्तप्तकृच्छ्रं समाचरेत् । 

{शङ्खः} प्रपायां शूद्रभाण्डे वा स्थितं तोयं द्विजः सकृत् । अन्नं वा ज्ञानतो भुक्त्वा पुनःसंस्कारमाचरेत् ।। 

( तत् पुनःसंस्कारे प्रायश्चित्ते च पराङ्गमुखः स अयाज्यो भवति)


(२६) पर्युषितान्नभोजन प्रायश्चित्त )-

[देवलः] #जले_निधाय_पूर्वेद्युर्यदन्नं_जलसेचनम् । #तत्तु_पर्युषितं_भुक्त्वा_महत्पापमवाप्नुयात् ।। 

[गौतमः] #दुर्गन्धि_जलसिक्तञ्च_रूपहिनं_यदस्ति_हि। #पर्युषितं_तु_तत्त्याज्यं_भुक्त्वा_चान्द्रायणं_चरेत्।। 

[गालवः] #दिग्धं_घृतेन_तैलेन_यदन्नं_संस्कृतं_च_यत् । #दुर्गन्धरहितं_भोज्यमन्यथा_चान्द्रमुच्यते।। 

[गौतमः] हिङ्गुजीरकसंमिश्रं तिन्विणीरसवेष्टितम् । दुर्गन्धरहितं चान्नं भोक्तव्यं द्विजपुङ्गवैः।। एतैर्द्रव्यैः परिष्कृत्य दुर्गन्धरहितं यदि । कृत्वा तत् पूर्वदिवसे भोक्तव्यं स्याद् द्विजन्मभिः ।। दुर्गन्धिजलसंमिश्रं पूर्वेद्युरुदके धृतम् । तत्पर्युषितसंज्ञं स्यात् भुक्त्वा चान्द्रायणं चरेत् ।। 

#त्रिरात्रं_पञ्चरात्रं_चेद्_भुंक्ते_पर्युषितं_द्विजः। (पुनः) #तस्योपनयनं _भूयश्चान्द्रायणमथाचरेत्। 

ब्रह्मचारिणां संवत्सरभोजने पुनरुपनयनं चान्द्रायणद्वयञ्च 

(तत् पुनःसंस्कारे प्रायश्चित्ते च पराङ्गमुखः स अयाज्यो भवति)


(२७) (सूतकद्वयभोजन प्रायश्चित्त )-

[देवलः] सूतकद्वितये राजन् जाते तस्य द्विजोयदि । अज्ञानाद् भोजनं कुर्यात् #सद्यः_संस्कारमर्हति ।। ज्ञात्वा तदन्नं संच्छर्द्य पञ्चगव्यं पिबेत्ततः। छर्द्यभावे तदा स्नात्वा #पुनः_कर्मा$परे$हनि ।। उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति । अन्यथा नरकं घोरं यात्यत्रैव न संशयः।। 

[मार्कण्डेय] सूतकद्वितये ज्ञानात् विप्रोभोजनमादरात् । कृत्वा सद्यः पतत्यैव #पुनःसंस्कारमाचरेत् ।। छर्दयित्वा तदन्नं वा पञ्चगव्येन शुद्ध्यति । छर्द्द्यभावे तदा स्नात्वा #पुनःकर्म विधानतः।। कृत्वा शुद्धिमवाप्नोति नान्यथा शुद्धिरीरिता । 

(दोषोक्त सूतकद्वयान्नं ज्ञानतो$ज्ञानतो वा  छर्द्याभावे पुनःसंस्कारे पराङ्गमुखः स अयाज्यो भवति)


(२८) (प्रेतैकोदिष्टभोजन प्रायश्चित्त )-

[देवलः] मृताहैकादशे विप्रोभुक्त्वा कवलसंख्यया। तावद्युगसहस्राणि रौरवं नरकं व्रजेत् । तदन्ते भुवमासाद्य रक्तपास्तुभवेज्जले ।। यावन्त्यन्नपुलाकानि कवले कवले नृप । तावन्तः कृमयः सर्वे भक्षितास्तेन पार्थिव।। 

[महानारदीये] एकाहदिवसे राजन् द्वात्रिंशत्कवलसंख्यया। गृहीत्वा मूल्यमश्नाति तावन्तः कृमिराशयः।। भक्षित्वास्तेन राजेन्द्र ततस्त्वतत्परित्यजेत् । कवले कवले चान्द्रं कृत्वा शुद्धिमवाप्नुयात् ।। #पुनःकर्मविधानेन पटगर्भेण शुद्ध्यति । अन्यथा दोषमाप्नोति प्रेतभूतश्चरन् भुवि।। महापातकयुक्तो वा युक्तो वा सर्वपातकैः। पटगर्भविधानेन पुनःसंस्कारकृन्नरः ।। शुद्धिमाप्नोति राजेन्द्र पटगर्भोमहत्तरः। 


(पट्टगर्भविधानेन गर्भाधानादि पुनरुपनयनान्त-संस्कारेषु पराङ्गमुखः स अयाज्यो भवति)


(२९) (उद्वाहितायाः पुनरुद्वाह प्रायश्चित्त )-

[देवलः] समुद्रयात्रास्वीकारः कमण्डलुविधारणम्। दत्ताक्षतायाः कन्यायाः पुनर्दानं वरस्य च ।। दीर्घकालं ब्रह्मचर्यं वर्जनीयं कलौयुगे । एतान् धर्मान् परित्यज्य यो विप्रोदोषभाग्भवेत् ।। तस्यैव निष्कृतिर्नास्ति तप्तकृच्छ्रशतादिह।। 

[गौतमः] पूर्वमुद्वाहितां कन्यामन्यस्मै धनकाङ्क्षया । सवराद्वापि राजेन्द्र दद्याद्विप्रोधनातुरः।। भ्रूणहत्यासमं पापमवाप्नोतीह तत्क्षणात् । दातुः शुद्धिः करीषाग्नेः परिणेतुस्तथैन्दवैः।। सा कन्या हरिणी प्रोक्ता तत्पुत्रा #कुण्डसंज्ञिताः।अनेकदोषबाहुल्यात् तस्य मार्गं परित्यजेत् ।।

[जाबालिः] पूर्वमुद्वाहितां कन्यां पिता भ्राता धनेच्छया। तथा यदिह रोषाद्वा अन्याधीनां करोति चेत् ।। महादोषमवाप्नोति #पितरोयान्त्यधोगतिम् । दातुः शुद्धिः करीषाग्नेर्वोढुश्चान्द्रायणत्रयैः।। सा कन्या #पांसुला ज्ञेया तत्पुत्र #कुण्डसंज्ञितः। एतद्दोषविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् । कन्यादाता तु चापाग्रे प्रत्यहं स्नानमाचरेत् ।। वर्षमात्रेण संशुद्धो नान्यथा शुद्धिरिष्यते । #तद्भर्ता_तां_परित्यज्य_कुर्याच्चान्द्रायणत्रयम् । (पुनः) #तस्योपनयनं_भूयः_शुद्धिमाप्नोत्यनुत्तमाम् ।। सा कन्या पूर्वजं चान्यं त्यक्त्वा चान्द्रायणं चरेत्। शिशुचान्द्रायणमित्यर्थः अन्यथा नरकं व्रजेदिति । उभयोस्त्यागे पुत्राभावे कन्यकायाश्चान्द्रायणात् शुद्धिः। पुत्रोत्पत्तौ तु तस्या स्तत्पुत्राणां च गतिर्नास्ति,  अतस्तूभयोस्त्याग एव वरः । ।

( वरस्य निषेध- प्रायश्चित्ते पुनरुपनयने च पराङ्गमुखः स अयाज्यो भवति )


(३०) (पुंसिमैथुन , स्वदारेषुमुखमैथुन प्रायश्चित्त )

{देवलः} यो विप्रः पुरुषं गच्छेत् पञ्चबाणातुरः खलः। स्वदारेषु मुखे वापि यभेत् पापपरायणः।। तस्य वीर्यं क्षयं याति मृतो नरकमश्नुते। 

{मार्कण्डेयः} यो विप्रः पुंसि संसर्ग स्वदारेषु रतिं मुखे । कुर्याद् यदिह पापात्मा तद्रेतः क्लीबतामगात् ।। यमलोकमुपागम्य तत्र वासः सदा भवेत् । तस्यैव निष्कृतिर्नास्ति #पुनःसंस्करणं विना ।। 

{नारदः} स्वदारेषु मुखे राजन् यो विप्रः पुरुषं यभेत् । तस्य वीर्यं क्षयं याति स वै नरकमश्नुते ।। 

{जाबालिः} पश्चात्तापमवाप्याथ यदीच्छेत् शुद्धिमात्मनः। #एकस्मिन्दिवसे_तप्तः_मासे_चान्द्रं_ततः_परम्।। #अब्दात्_परं_मुनिश्रेष्ठ_षडब्दं_कृच्छ्रमाचरेत्। (पुनः) #तस्योपनयनं भूयः #पटगर्भविधानतः।। पञ्चगव्यं पिबेत् पश्चात् पूतो भवति सर्वदा ।  

(निमित्ते अब्दात्परं प्रायश्चित्ते पुनरुपनयने च पराङ्गमुखः स अयाज्यो भवति)


(३१) (वेश्यागमन प्रायश्चित्त )-

देवलः --> द्विजः कामातुरो वेश्यां यमेदेकदिनं मुदा। न तस्य सन्ति  पुण्यानि तिष्ठन्त्यत्र न संशयः।। द्विजः कामातुरो नित्यं वेश्यां यदि यमेद्भुवि । (#तस्य_नित्यविधिर्नष्टः_सद्य_एव_न_संशयः।। नित्यकर्मपरित्यागात् पतितः स्यान्न संशयः।) यदीच्छेत् शुद्धिमतुलां षडब्दं कृच्छ्रमाचरेत् ।   #पुनस्तत्रैव_संस्कारं कृत्वा शुद्धिमवाप्नुयात् । 

(प्रायश्चित्ते पुनरुपनयने च पराङ्गमुखः स अयाज्यो भवति)


(३२) अथ विधवागमनप्रायश्चित्तमाह -

देवल:- ब्राह्मणोमदलोभेन विधवां विप्रनन्दिनीम् । गच्छेत् कामातुरः पश्चाज्ज्ञात्वाऽसौ पतिवर्ज्जिताम् । इति मत्वा व्रजेद् गन्धमादनं पर्व्वतोत्तमम् ॥ तत्र चापाग्रमासाद्य प्रातः स्नायाद् दिने दिने । मासमात्रेण शुद्धिः स्याद् अशुद्धोऽभूत्तदन्यथा ॥

मार्कण्डेय: - 

पूर्व्वजोविधवां विप्रनन्दिनीं विषयातुरः । अज्ञानात् सकृदागत्य पश्चात्तापपरायणः ॥ यदीच्छेदात्मनः शुद्धिं चापाग्रे' स्नानमाचरेत् । मासमात्रेण शुद्धिः स्यात् पुनः संस्कारमार्गतः ।। एतदज्ज्ञानविषयम् ।

पराशरः -

ज्ञात्वा विप्रः सकृद् गच्छेद विधवां कामपीड़ितः । तस्यैव निष्कृतिर्नास्ति ऋते कारीषवह्निना ॥

जावालिः - उभयोर्यदि सम्मत्या द्विजः पापमनुस्मरन् । गच्छेत् पश्चाच्छुद्धिकामो मृतः कारीषवह्निना ॥ शुद्धिमाप्नोति राजेन्द्र अथवा भूपरिक्रमः । त्रिवारं क्ष्मां परिक्रम्य पुनः संस्कारपूर्व्वकम् ॥ पञ्चगव्यं पिूबेत्पश्चात् शुद्धिमाप्नोति पौर्व्विकीम् । एतद् गर्भधारणविषयम् ।


शिवरहस्ये -

यो विप्रो विधवां साध्वीमागच्छेद्गर्भधारणात् । स चाण्डालसमोज्ञेय स्तस्यात्यागोविधीयते ॥ गर्भधारणे विप्रः पतितप्रायश्चित्तं कृत्वा शद्धिमाप्नोति । 


गर्भधारणे 'पुनर्विशेषमाह । नागरखण्डे-- 

वर्णत्रयाद वा विधवा सवर्णा यदि गर्भिणी। विप्रेस्तस्याः परित्यागः कार्योधर्मपरायणैः ॥ तद्दर्शने महापापमवाप्नोति हि पूर्व्वजः । 


विष्णुधर्मे– वर्णत्रयात् वा विधवा सवर्णा यदि गर्भिणी।। तस्या दर्शनमात्रेण ब्रह्महत्यामवाप्नुयात् ॥


अतस्त्यागोमुनिश्रेष्ठा अनया किं प्रयोजनम् ।


“गर्भे त्यागोविधीयत" इति मनुवचनं सर्व्वत्राऽनुसन्धेयम् । विधवाया विप्रस्याऽर्धं  प्रायश्चित्तम् । क्षत्रिय-वैश्यपुरुषगमने द्विगुणं

प्रायश्चित्तम् । क्षत्रियादीनां प्रायश्चित्तं द्विगुणम् ।

(३३) (रजस्वलागमन प्रायश्चित्त )-

देवलः -> राजन् पुष्पवतीं भार्यां द्विजः कामातुरो व्रजेत्। महान्तं नरकं गत्वा रक्तस्राविगुदोभवेत् ।। 

मार्कण्डेयः-> विप्रो रजस्वलां पत्नीं गच्छेत् कामातुरः सकृत् । मेहवान् भविता राजन् रक्तस्रावी भवेद्भुवि।। 

गालवः-> यो विप्रः पञ्चबाणार्त्तो जम्भेत् पत्नीं रजस्वलाम् । न तस्य पुनरावृत्तिर्यमलोकाद् भयङ्करात् । प्रथमे$हनि यो गच्छेत् "चाण्डालीगमने च यत् तत् कृत्वा शुद्धिमाप्नोति अन्यथा दोषभाग्भवेत् ।। द्वितीये$हनि ब्रह्मघ्नीगमने यदुदाहृतम् । तदत्रा$पि प्रयोक्तव्यं ना$न्यथाशुद्धिमाप्नुयात् ।। तृतीये रजकीसङ्गे प्रायश्चित्तं तदत्र हि । कृत्वा शुद्धिमवाप्नोति इहलोके परत्र च ।। 

भविष्योत्तरे -> प्रथमे$हनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थे$हनि शुद्ध्यति ।। 

[दिन त्रयेषुगमने यद्यत् पापमुदीरितं तत्तत् प्रायश्चित्तं कृत्वा विशुद्ध्यति #पुनःसंस्कारश्च । ] 

तत्तत् प्रायश्चिते पुनःसंस्कारे च पराङ्गमुखः स अयाज्यो भवति।

(३४) (गृहोपकरणादिहरण प्रायश्चित्त)-- 

गौतमः -(नानावस्तुनि च ) मुसलं दृषदञ्चैव उलूखलमन्नतरम् । वरठं वेणुपात्रञ्च शूर्पं दाम तथैव च ।। बृहद्बिलञ्च निश्रेणीं मृन्मयं भाण्डमेव च । दारुपात्रं कुण्डलिनीं यो हरेद्विजनायकः ।। न तस्य निष्कृतिर्नास्ति #पुनःसंस्कारमर्हति ।

(३५) (रत्नविक्रय प्रायश्चित्त ) ---

गौतमः- मौक्तिकं पुष्परागञ्च पद्मरागं प्रवालकम् । गोमेदिकं महारत्नं रत्नं गारुत्मतं तथा ।। इन्द्रनीलञ्च वज्रञ्च नवधा रत्नमीरितम् । द्विजः सम्पाद्य वसुभिर्मुषित्वा वा नराधिप ।। एतानि बहुधा मूल्यैः सम्पाद्या$$स्यसमुद्भवः। विक्रयेदात्मलोभेन रत्नद्रोही निगद्यते ।

पराशरः-- मौक्तिकं पद्मरागञ्च पुष्परागं प्रवालकम्। गोमेदकं महारत्नं वज्रं गारुत्मकं तथा ।। इन्द्रनीलमिति प्रोक्तं नवधा रत्नमीरितम् । द्विजः सम्पाद्य वसुभिर्मुषित्वा वा नराधिप।। एतानि बहुधा मूल्यैः सम्पाद्या$$स्यासमुद्भवः।। विक्रयेद्यदि पापात्मा स गच्छेद्यमयातनाः। स्तेयं कृत्वा द्विजोयस्तु विक्रयेदेकवारतः। तस्य देहविशुद्ध्यर्थं षडब्दं कृच्छ्रमीरितम् ।। #तस्योपनयनं_भूयः स्तेयदोषोपशांतये ।। 

गौतमः-- रत्नसाधारणं राजन् तप्तकृच्छ्रं समाचरेत् । 

स्तेयप्रायश्चितमुक्तरीत्या कृत्वा #पुनरुपनयना$न्तरं षडब्दं कृच्छ्रं कृत्वा शुद्धिमाप्नोति,  रत्नसाधारण तप्तं कृत्वा शुद्धिमाप्नोति।

(३६)  {नीली(गुर्जरे गळी प्रसिद्धम्)विक्रय प्रायश्चित्त}-

लिंगपुराणे - नीलीं यः पूर्वजः क्रीत्वा वणिग्भिः पापकर्मधीः। पलं वा विंशतिपलं शतं वा$थ ततः परम् ।। विक्रयेद्यदि पापात्मा स सद्यः पतितो भवेत् । स गत्वा नरकं घोरं तन्तुवायद्विजोभवेत् ।। 

महानारदीये --> मुखजो विप्रतां त्यक्त्वा वणिग्भिः सह पापकृत् । क्रीत्वा नीलीं धनैर्वापि विक्रयेद्यदि लोभतः।। न तस्य निष्कृति र्वास्ति यमलोकात् कदाचन । भुवं ततः पुनर्गत्वा द्विजो$भूत्तन्तुवायकः।। 

स्कन्दपुराणे -- नीलीं सम्पाद्य विप्रो$यं धनैर्विनिमयेन वा । क्रीत्वा तद्विक्रयेत् पश्चान्महान्तं नरकं व्रजेत् ।। अनुभूय महद्घोरं तन्तुवायद्विजस्मनाम् । पश्चात्ताप समायुक्तः प्रायश्चित्तं विशुद्धिदम् ।। #तप्तचान्द्रायणं_कृत्वा_पुनःसंस्कारपूर्वकम्। #शुद्धिमाप्नोति_महतीं_नान्यथा_शिखिवाहन।।

(पुनरुपनयने प्रायश्चित्ते च पराङ्गमुखः स अयाज्यो भवति)

(३७) (लवण विक्रय प्रायश्चित्त )-

वराहपुराणे - कुड्यं कल्पमात्रं वा प्रस्थं वा$थ ततो$धिकम् । द्विजः क्रीत्वा विक्रयेद् यदि पण्यविवृत्तये ।। स एव नामधारः स्यात् चाण्डालोविप्र उच्यते । यमलोकमुपागत्य स्वेदरोगी भवेद्भुवि। 

स्कन्दपुराणे- लवणं बहुधा क्रीत्वा पूर्वजोह्यर्थलोभतः। पश्चात्तद्विक्रयं क्रीत्वा महान्तं नरकं व्रजेत्।। पुनर्भुवमुपागम्य स्वेदरोगी महान् भवेत् । असम्भाष्योह्यपाङ्क्तेयो वैडालोविप्र उच्यते ।। 

चतुर्विंशतिमते - मुखजोलवणं क्रीत्वा वणिग्भिः सह लाभतः। पश्चात्तद्विक्रयित्वा तु स याति यममन्दिरम्।। स्थित्वा बहुदिनं तत्र स्वेदाङ्गो जायते भुवि । स तु बैडालविप्रः स्याद् असम्भाष्यः कदाचन ।। तस्य देहविशुद्ध्यर्थं #प्राजापत्यं मनूदितम् । लवणं विक्रयेत् पक्षं #तप्तकृच्छ्रद्वयं स्मृतम् ।। मासं तद्विक्रयं कृत्वा #तप्तकृच्छ्रचतुष्टम् । ऋतुमात्रन्तु यस्तात तस्य #चान्द्रमुदाहृतम् ।। ऋतुद्वये #द्वयंप्रोक्तं वत्सरे पतितो भवेत् । यथात्तापसमायुक्तः पतितस्तु यदस्ति हि ।। #तस्योपनयनं_भूयोनान्यथा शुद्धिरीरिता । तत्पत्नीनां तदर्द्धं स्यात् क्षत्रियाणां द्विजोक्तवत् ।। विट्शूद्रयोः स्वभावः स्यादसौ लवणविक्रयः । 


(विप्रक्षत्रियौ प्रायश्चित्त पुनःसंस्कारे च पराङ्गमुखः स अयाज्यो भवति।)-


(३८) देवलः - ब्रह्मचारी न कुर्वीत शववाहादिकाः क्रियाः। 

यदि कुर्याच्चरेत्कृच्छ्रं पुनः संस्कारमेव च ।। मनुरपि - आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् । निर्हृत्य तु व्रती प्रेत्यं व्रतेन विनियुज्यते।।

(३९) स्मृतिमञ्जर्याम् - 

द्विजोऽकृतोपाकरणः समावर्तेत मोहतः। स प्राजापत्य पूर्वं तु पुनः संस्कार मर्हति।।

(४०) पक्ष्यादिमांसभक्षणाभ्यास - 

प्रायश्चित्तेन्दुशेखरे:-- 

सर्प सरीसृप मूषक मार्जार कृकलास कर्कट नकुल मण्डूक शृङ्गि मयूर वानर कपि अश्व गोमायु वृक सिंह व्याघ्रादि क्रव्याजन्तु गजाश्वोष्ट्र खर ऐकशफामुभयतो दन्तानां च काक बक बलाका हंस गृध्र जालपाद चक्रवाक विष्किर पुण्डरीक कपिञ्जल भास चाष कुक्कुट प्लव चक्रवाक कारण्डवगृह चटक कपोत पारावत खञ्जन पाण्डूक शुक सारिका सारस टिट्टिभोलूक श्येन कङ्क रक्तपाद तित्तिरि कोकिल हारित मद्गु कलविङ्क क्रौञ्च दार्वाघाटादीनां मनुष्याणां जलचरपक्षिणां प्राणिभक्षकाणां नखैर्विदार्यान्नादिभक्षिणां मत्स्यादिजन्तूनां मत्स्यानां च सूनागतमांसभक्षणे शुष्कमांसभक्षणे च शशक शल्लक कच्छप गोधा खङ्ग व्यतिरिक्त पञ्चनखमांस भक्षणे चैतेषां विण्मूत्ररक्तवासमज्जानां तदुच्छिष्टानां च भक्षणे चामत्या #कायम्। अभ्यासे #महासान्तपनम्। मत्या #तप्तकृच्छ्रः । मत्याsभ्यासे #चान्द्रम्। अत्यन्ताभ्यासे #पतनम्। तेषां #कर्णादिमलषट्कभक्षणेऽर्धमिति स्मृत्यर्थसारे। अमत्या सकृद्भक्षण #एकोपवासः। कामतो #द्विगुणम्। तथाऽभ्यासे #त्रिरात्रसप्तरात्रद्वादशरात्र #पक्षव्रतमासव्रतचान्द्रायणान् अभ्यासाधिक्यतारतम्यमालोक्य योज्यानि। (अभ्यासे सर्वत्र व्रतान्त एकदिनं घृतप्राशनं #पुनःसंस्कारश्च।।)


(४१) 

प्रायश्चित्तेन्दौ ;- 

विप्रस्याष्टवर्षपर्यन्तं क्षत्रवृत्या धनार्जने चान्द्रायणम्। वैश्यवृत्तौ षण्मासान् । शूद्रवृत्तौ तु सकृदेव पुनरुपनयनपूर्वकं कृच्छ्रम् ।।

(४२)  संस्कारगणपति , वीरमित्रोदय संस्कार प्रकाशे हारितः --


शिखां छिन्दन्ति ये मोहाद् 

           द्वेषादज्ञानतोऽपि वा। 

पुनः संस्कार मर्हन्ति 

           त्रयोवर्णा द्विजातयः।।

(४३) लौगाक्षी स्मृतौ - 

अनध्यायेषु सायाह्ने यामिन्यां #दक्षिणायने। अष्टकास्वकेलान्मौ दिवसेष्वपि। हठान् मोहाच्छलान् मौर्ख्यात् कृतोपनयनं वृथा। पुनः करणमाप्नोति यथावन्नात्र संशयः।।


(४४)  ब्राह्मणो के उपनयन की अन्तिम अवधिकाल १६ से पहिले स्वशाखीय उपनयन न होने पर अर्थात परशाखोक्त उपनयन हो जाने पर - 


उपनयन की विधा क्या हैं ?


स्वशाखोक्त गृह्यसूत्रपद्धति की विधा --> 

(४४/ १) "गृह्योक्तकर्मणा येन समीपं नीयते गुरोः। बालो वेदाय तद्योगाद् बालस्योपनयनं विदुः।। ( अपरार्क।।)"


(४४/ २ ) औशशनस स्मृति ---> कृतोपनयनो वेदानधीयीत द्विजोत्तम:। गर्भाष्टमे व्यष्टमे वा स्वसूत्रोक्त विधानत:।।


(४४/ ३) स्वे स्वे गृह्ये यथा प्रोक्तास्तथा संस्कृतयोऽखिलाः। कर्तव्या भूतिकामेन नान्यथा सिद्धिमृच्छति।। (संस्कार रत्ने - अत्र्याश्वालयनौ , अन्यत्र अंगिरावचन)


(४४/४) मनुष्याणां हितं धर्मं वर्तमाने कलौयुगे। #वर्णानामाश्रमाणाञ्च किञ्चित् साधारणं वद। आधानादिक संस्काराः प्रोक्ता ये वै द्विजन्मनः कर्तव्याश्च स्वशाखोक्ताः [केचित् कुलक्रमेण च । चत्वारिंशच्च ते सर्वे ] निषेकाद्याः प्रकीर्तिताः मखदीक्षा च विविधा तथैवान्त्येष्टिकर्म च।। (( बृहत् पराशरस्मृतौ अध्याय ३/३६  , अध्याय ६/२०२-२०३))  जो लोग सुनते आये हैं न ;  "कलौ माध्यंदिनी शाखा " - ये कोई विधेयवाक्य नहीं हैं ऊपर से माध्यंदिनीसे इतर शाखा वालो के लिए  पतन सूचकोक्ति हैं। 


(४४/ ५) अधित्य शाखामात्मीयां परशाखां ततः पठेत्।

#तच्छाखंकर्म_कुर्वीत तच्छाखाध्ययनं तथा।। 

        ((संस्कार प्रकाशे वसिष्ठः))


(४३/६) मंत्रभेदादेकवेदे शाखाभेदो विधीयते। तस्मात् स्वशाखामंत्रैश्च कर्म कुर्यादंद्रितः।। 

            ((मंत्रभ्रान्तिहरसूत्रे , कात्यायनः))


(४४/७) प्रकृते तस्य यत्प्रोक्तं प्रतिपादकमज्जसा । सूत्रं तदेव नान्यत्तु तदेतद्यच्चतुष्टयम् ।। पूर्वैराचरितं कार्य पूर्वे पितृपितामहाः । प्रपितामहाद्याः स्युस्ते तैरशास्त्रकृतं तु चेत्।। तत्याज्यमेव सुतरां शास्त्रीयं यत्तदाचरेत् । स्वसूत्रोक्तप्रकारेण स्मार्तं कर्म श्रुतीरितम् ॥ तत्र ब्राह्मण्यकरणं मौञ्जीकर्मोत्तमं स्मृतम्।। 

       ((मार्कण्डेय स्मृति))

(४४/ ८) पारंपर्यागतो येषां वेदः सपरिबृंहिणः। तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा ॥ यः स्वशाखां परित्यज्य पारक्यमधिगच्छति । स शूद्रवहिष्कार्यः सर्वकर्मसु साधुभिः ॥ “ अधीत्य शाखामात्मीयां परशाखां ततः पठेत् " ॥ (( याज्ञवल्क्य , नृंसिहस्य प्रयोगपारिजाते वसिष्ठः))


यजमान को चाहिये कि अपनी शाखा के अध्ययन में अनालसी हो ,अर्थात् यजमान की शाखातुल्य शाखा में अधित हो ऐसे आचार्य उपनयन के लिये  अपेक्षित हैं  --> 


"(४४/ ९) वैदिकनिष्ठं धर्मज्ञं कुलिनं श्रोत्रियं शुचिम्। स्वशाखाढ्यमनालस्यं विप्रं कर्तारमीप्सति।। (((वीरमित्रोदये ,व्यासः ।।))


शास्त्रो में उपनयन का क्या फल हैं ? द्विजत्वसिद्धि - 


(४४/ १०) उपनीतेः फलं त्वेतद् द्विजतासिद्धिपूर्विका। (( स्मृतिसंग्रहे ,संस्कार रत्नमालायाम्।।))


अथाऽधुना #द्विजत्वसम्पादको ऋष्याणापनोदक उपनयनविधिरभिधीयते।। 

( बोधायनीय ब्रह्मकर्म समुच्चय  )


जिसका परशाखा में उपनयन होता हैं अथवा स्वशाखा में उपनयन नहीं होता इससे क्या आपत्ति हैं ? 


शाखारण्डदोष लगता हैं , अक्रिया होती हैं ,उपनयन के फल द्विजत्व की सिद्धि नहीं होती कृतकर्म निष्फल हो जाता हैं  ---> 


(४४/११) यः स्वशाखां परित्यज्य अन्य शाखामनुस्मरन्। उपनयनादिकं तत्र कुर्वन् विप्रो यदा भवेत्। शाखारण्डः स विज्ञेयो सर्ववर्णबहिष्कृतः।। (चतुर्वर्गचिंतामणि ०प्रायश्चित्तखंड० गौतम।।)


(४४/ १२)स्वे स्वे गृह्ये यथा प्रोक्तास्तथा संस्कृतयोऽखिलाः। कर्तव्या भूतिकामेन #नान्यथा_सिद्धिमृच्छति।।(अंगिरा,  संस्काररत्ने अत्र्याश्वलायनौ ) 


(४४/ १३) अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम्। अक्रिया च परोक्ता च तृतीया चाऽऽयथा क्रिया ।। (छांदोग्यपरिशिष्टे  कात्यायनस्मृतिवचन , तत्रैव परिशिष्टप्रकाशे  "अकरणं #परशाखोक्तकरणं विहितेतरप्रकारेण क्रमान्तरादिनाकरणं त्रिविधैव कर्मणामक्रिया -निष्फलत्वात्।। 


(४४/ १४) यो न मन्त्रैः स्वशाखोक्तैः संस्कृतोनाधिकारिणा। नाऽऽसौ द्विजत्वमाप्नोति पुनः संस्करणं विना।।

         ((ज्योतिर्निबन्धे।।*)) 

ये ज्योतिर्निबन्ध कोई झोलेछाप की पोथी नहीं हैं , इसके प्रमाणो को पारस्करगृह्यसूत्र भाष्यकार गदाधर भी ग्राह्य मानते थे।


(४५/१५)  यो वा को वा पुनर्वच्मि स्ववेदं वा स्वसूत्रकम्। त्यक्त्वा समाश्रयेदन्यं सद्यः पातित्यमर्हति। वेदत्यागेनास्य वेदस्वीकारात्सद्य एव वै॥ शाखारण्डो भवेन्नूनं न योग्यो हव्यकव्ययोः। न पङ्क्तियोग्यश्च तथा स तु स्यान्नित्यकिल्विषी॥ (मार्कण्डेय स्मृति))


यदि परशाखा में उपनयन हुआ हो तो निष्फलता के कारण द्विजत्वकी प्राप्ति नहीं होती ऐसे में  उपनयन के शास्त्रीयफल द्विजत्व की प्राप्ति हेतु क्या किया जाय ? 


सोलह  वर्ष से पहिले यदि परशाखा का जनेऊ हुआ हो तो बिना कुछ प्रायश्चित्त किये पुनः उपनयन सांगोपांग स्वशाखानुसार करवाये -->


(४४/ १६ ) यो न मन्त्रैः स्वशाखोक्तैः संस्कृतोनाधिकारिणा। नाऽऽसौ द्विजत्वमाप्नोति पुनः संस्करणं विना ।। ((ज्योतिर्निबन्धे।।))


(४४/ १७) यथा स्मार्त्तं तथैव स्याद् यदन्येन कदाचन । सूत्रेण संस्कृतो मोहात्पुन:संस्कार मर्हति || स्वसूत्रोक्तेन विधिना न चेत्पातित्य मर्हति ।।   

               ((आंगिरस स्मृति))


संस्कार श्राद्ध आदि में प्रधान क्रिया अयथा (विहितेतर प्रकार) से हुई हो तो उसे पुनःकरना चाहिये --


 प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः।।

(छांदोग्यपरिशिष्ट नारायणवृत्तौ)


आश्वालायनने तो सभी ऋग्वेद की शाखावालों के लिये स्पष्ट उद्घोष किया हैं ->


(४४/१८) बह्वृचानां तु यत् कर्म यदि स्यादन्यशाखया। पुनश्चैवापि तत्कर्म कुर्याद् बह्वृचशाखया ।। ((आश्वलायनस्मृति २४/१८))


और यदि १६ वर्ष की आयु तक में स्वशाखा की पद्धति के अनुसार उपनयन नहीं होते तो अथवा १६ वर्ष तक की आयु में द्विजत्व(उपनयन का फल ही द्विजत्व की प्राप्ति हैं)  की प्राप्ति न हुई हो तो क्या आपत्ति हो सकती हैं ? 


पतितसावित्रीकदोष , व्रात्यदोष ,वृषल (वैदिककर्म तथा द्विजातिकर्मो में अनधिकारी) , पतित(द्विजत्व से पतन) ,शाखारण्डदोष अथवा सर्ववर्णबहिष्कृत(द्विजातिकर्मो से )हो जाएगे -----> 

(४४/१९) आषोडशाद् वर्षाद् ब्राह्मणस्यानतीत कालो भवति। अत ऊर्ध्वं पतितसावित्रीका भवन्ति।। ((पारस्कर गृह्यसूत्र २/५/३६ एवं ३९))


(४४/ २०) आषोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते। आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः।। अत ऊर्ध्वं त्रयोऽप्येते यथाकामसंस्कृताः। सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः।।                 ((मनुः २/३८-३९))


(४४/ २१) शाखां शिखां च सूत्रं च समयाचारमेव च || पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत् ॥                          ((आंगिरस स्मृति))


(४४/२२) स्वसूत्रोक्तं परित्यज्य यदन्यत् कुरुते द्विजः। अज्ञानादथवा ज्ञानाद्यत्नेन पतितो भवेत् ।। ((संस्कार अंक गीताप्रेस गो० सन् २००६, पृष्ठ १२४ श्रृंगेरीशारदापीठ ज०शंकराचार्य भारतीतीर्थजी महाराज)))


(४४/ २३) यः स्वशाखां परित्यज्य अन्यशाखामनुस्मरन्। 

उपनयनादिकं तत्र कुर्वन् विप्रो यदा भवेत्। शाखारण्डः स विज्ञेयो सर्ववर्णबहिष्कृतः।।

(( चतुर्वर्गचिंतामणि० प्रायश्चित्तखंडे० गौतम ))


(४४/ २४) गौतमधर्मसूत्र प्रश्न ३/अ०३/४ --> द्विजातिकर्मभ्यो हानिः पतननम् ।। 'द्विजातीनां यानि कार्याणि-कर्माण्यध्ययनादीनि #श्रौतानि #गार्ह्याणि #स्मार्त्तानि च तेभ्यो हानिस्तेष्वनधिकारः ।।


====================================


पुनरुपनयन निमित्त ४५- 


चतुर्वर्गचिंतामणि प्रायश्चित्तखंड "वह्निपुराणे"-


पूर्व्वजः स्वतनुं दग्ध्वा शङ्खचक्रादिभिः पृथक् ।


तस्य वै निष्कृतिर्नास्ति स्नानदानजपादिभिः ॥


तस्य निष्कृतिरुत्पन्ना पाराशर्येण चोदिता। 

केशानां वापयित्वाऽथ #पुनः_कर्म_समाचरेत् ॥ #गर्भगोलासमुद्धृत्य_गर्भाधानादिपूर्व्वकम् । षोढ़ावृत्त्यैव कृच्छ्राणां प्रायश्चित्तमुदीरितम् ॥ परिषदुपस्थान पूर्वकं #षड़ब्दं_कृच्छ्रान् कृत्वा शुद्धिमाप्नोति..

Comments

Popular posts from this blog

Copyright

सूर्य संबंधित कार्य

भूत प्रेत