विष्णुसूक्त
विष्णुसूक्त शंकर उवाच - प्रवक्ष्याम्यधुना देवी सूक्त श्री वैष्णवं शुभम् । यच्छ्रुत्वा सर्व पापेभ्यो मुक्तो भवति वै नरः ।। पार्वत्युवाच - देव दैव दयासिन्धो लोकानां मुक्तिदायक। ममोपरि कृपा कृत्वा विष्णुसूक्तं ब्रूहि मे ॥ शंकर उवाच - नमो नमस्ते देवेश धृत्वा चक्रं सुदर्शनम् । प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥ गदां कौमोदकीं धृत्वा पद्मनाभामितधुते । याम्यां रक्ष च मां विष्णो त्वामहं शरणं गतः ॥ हलमादाय भो देव नमस्ते पुरुषोत्तम । प्रतीच्यां रक्ष मां विष्णो भवंत् शरणं गतः ॥ मृशलंच करे धृत्वा पुंडरीकाक्ष रक्ष मां। उत्तरस्यां जगन्नाथ त्वामहं शरणं गत:।। खड्गमादाय चर्मापि ह्यस्त्रं शस्त्रं तथा हरे । नमस्ते रक्ष रक्षोघ्न एशान्यां शरणं गत:।। पांचजन्य महाशंख सन्नध्यायुध पंचकम् । प्रगुह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ।। चर्मसूर्यसमं धृत्वा खड्रगं चंद्रसमं तथा। नैऋत्यां चैव मा रक्ष दिव्यमूर्ते च केसरिन् ॥ वैजयन्तीं च संगृह्य श्रीवत्सं कौस्तुभं मणिम् । वायव्यां रक्ष मां विष्णो हयग्रीव नमोस्तुते ॥ वैनते...