पुरूष सूक्त
।। पुरुषसूक्तम् ।।
जिंतं ते पुंडरीकाक्ष नमस्ते विश्वभावन ||
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ १ ॥
देवानां दानवानां च सामान्यमधिदैवतम् ॥
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ २ ॥
एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ।
अव्यक्तश्वानुमंता च गुणमायासमादृतः॥ ३ ॥
संसारसागरं घोरमनन्तं क्लेशभाजनम् ।।
त्वामेवशरणं प्राप्य निस्तरन्ति मनीषिणः॥४॥
न ते रूपं न चाकारो नायुधानि न चास्पदम् ।।
तथापिपुरुषाकारो भक्तानांत्वं प्रकाशसे ॥५॥
नैवकिञ्चित् परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् ।।
नव किश्चिदसाध्यं ते न च साध्योऽसि कस्यचित् ॥ ६ ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।।
योगिनांपरमा सिद्धिः परमं ते पदं विदुः ॥ ७॥
अहंभीतोऽस्मि देवेश संसारेऽस्मिन्भयावहे ।। त्राहि मां पुण्डरीकाक्ष न जाने परमंपदम्॥८॥
कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।।
शरीरे च गतौ चापि वर्तते मे महद्भयम् ॥ ९ ॥
त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि । विज्ञानंयदिदंप्राप्य यदिदंज्ञानमर्जितम् ॥१०॥
जन्मान्तरेऽपि मे देव माभूदस्य परिक्षयः ।
दुर्गतावपिजातस्य त्वद्भतोमे मनोरथः ॥११ ॥
यदिनाथं चविन्देत तावताऽस्मिन् कृतीसदा ।
कामयेविष्णुपादौतु सर्वजन्मसुकेवलम्।१२॥
पुरुषस्य हरेः खक्तं स्वग्यं धन्यंयशस्करम् ।।
आत्मज्ञानमिदंपुण्यं योगध्यानमिदंपरम्।।१३॥
ध्येयः सदा सबि सवितृमण्डलमध्यवर्ती
नारा- यणः सरसिजासनसंनिविष्टः।
केयूरवान् मकरकुण्डलवान किरीटी
हारी हिरण्मयबपुधृतशंखचक्रः॥१४॥
एतत्तु यः पठति केवळमेव सूक्तं
नारायणस्य चरणावभिवन्द्यवन्यौ ।
पाठेन तेन परमेण सनातनस्य
स्थानं जरामरणवर्जितमेति विष्णोः ॥१५॥
हविषानौ जले पुष्पैर्ध्यानेन हृदये हरिम् ।
यजन्तिसूरयो नित्यं जपेच्चरविमण्डले॥१६॥
बिल्वपत्रं शमीपत्रं पत्रं भृंगारकस्य च ।।
मालतीकुशपत्रं च सद्यस्तुष्टिकरं हरेः ॥ १७ ॥
यन्नोपपद्यते किञ्चिद् ध्यानेन मनसैब तु ||
संपद्यते प्रसादात्तु देवदेवस्य चक्रिणः ॥१८॥
पत्रैश्च पुष्पैश्च फलैश्च तोयै
रक्रीतलब्धैश्च सदैव सत्सु ||
भक्त्यैकलभ्ये पुरुषे पुराणे
मुक्त्यै किमर्थं क्रियते प्रयत्नः ॥१९॥
इत्येवमुक्तः पुरुषस्य विष्णो
रर्चाविधिर्विष्णु कुमारनाम्ना |
मुक्त्यैकमार्गप्रतिबोधनाय
दृष्ट्वा विधानं त्विह नारदोक्तम् ॥२०॥
नमोऽस्त्वनंताय सहस्रमूर्तये
सहस्रपादाक्षि- शिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नमः ।।२१।।
लक्ष्मीकलत्रं शतपत्रनेत्रं
पूर्णैदुवक्त्रं पुरुषोत्तमं च।
कारुण्यपात्रं कमनीयगात्रं
वंदे पवित्रं वसुदेवसुनुम् ॥२२॥
॥ इति पुरुषसूक्तम् ।।
Comments
Post a Comment