वडवानल स्तोत्र यज्ञ
#नानाविध_हनुमद्_यागाः(१-मारुतीयाग,२-पञ्चमुख-हनुमद्याग,३- सप्तमुख-हनुमद्याग, ४- एकादशमुख-हनुमद्याग,५- हनुमद् सहस्रनाम याग,६- वडवानल हनुमद्याग)~>
निष्काम-संकल्पः ~ देशकालौ संकीर्त्य हनुमत् कृपा प्रेरणया अमुक हनुमद्यागाख्यं कर्म करिष्ये |
सकाम-संकल्पः - देशकालौ संकीर्त्य मम आत्मनः श्रृति स्मृति पुराणोक्त पुण्यफलावाप्तये हनुमत् कृपा प्रेरणया अमुक कार्य सिद्ध्यर्थं अमुक हनुमान् प्रीतये अमुक हनुमद्यागाख्यं कर्म करिष्ये |
उभय-संकल्पः- देशकालौ संकीर्त्य मम आत्मनः श्रृति स्मृति पुराणोक्त पुण्यफलावाप्तये धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थ सिद्ध्यर्थं ऐहिकामुष्मिक नानाविध चित्तशुद्धिद्वाराजात कामादि अरि षडर्ग कृत मूर्छा कुलस्य चित्त शुद्धिद्वारा सकलजनपद श्रेयसे च अस्मिन् राष्ट्रे सर्वविध धर्माभ्युदय सकलाधर्म विनाशाय श्रीरामचंद्र प्रसादात् सर्वत्र स्वधर्म परिपालनात् सनातन धर्म विकासाय अभ्युदय श्रेयसे च हनुमत् प्रीत्यर्थं अमुक हनुमद्यागाख्यं कर्म करिष्ये |
तदङ्गत्वेन गणपति पूजनं,पुण्याहवाचनं(कर्मांग देवता हनुमतः प्रीयताम् ),मातृका पूजनं,नान्दीश्राद्धं, आचार्यादि वरणं च करिष्ये...
तानि कर्माणि क्रमेण समाप्य || दिग्रक्षणं,पञ्चगव्यकरणं यज्ञभूमिं-कुंडं च ब्राह्मणान् संप्रोक्ष्य || देवाऽयान्तु इत्यादि... भूमि, कुर्मानन्तवराहादिन् कुण्ड समीपे सम्पूज्य || मण्डपांग गणपतिपूजनं, वास्तुपीठदेवताःपूजनं,कुंडपूजनं,महाकाली-महालक्ष्मी-महासरस्वती समन्वित गजाननादि योगिनी:(इन्द्राण्यादि नव मातरश्च)पीठदेवताः पूजनं, क्षेत्रपालपीठदेवताः पूजनं च समाप्य || भवाम्बर-कुंडे भूसंस्कारपूर्वकमग्निं संस्थाप्य || अन्वाध्यायेत् --> समिद्वयं गृहित्वा-- .अत्र प्रजापतीमिन्द्रमग्निंसोमं एकैकयाऽऽज्याहुत्या, गणपतिं आज्येन एकाहुत्या,नवग्रहान् समित्(यव) चरु,तिलाज्य द्रव्यैः अष्टाऽष्ट संख्यकाभिराहुतिभिः, ईश्वरादि आधिदेवताः अाग्नेयादि प्रत्याधिदेवताश्च तेरैव द्रव्यैः चतुश्चतुः संख्यकाभिराहुतिभिः, विनायकादि लोकपालाः वास्तुं,क्षेत्राधिपतिं इन्द्रादिदशदिक्पालकाश्च तेरैव द्रव्यैः द्वाभ्यां द्वाभ्यां आहुतिभ्याम् |(अयुताधिक होमे शेषादि मनुष्यांत विशेष ग्रहपीठस्थ देवताः तेरैव द्रव्यैः एकैकयाऽहुत्या)|(मारुती यागे)- अत्र प्रधान हनुमद्देवतामुद्दिश्य अस्मेरुद्राऽ इति मंत्रेण कदलीफल,बीजपूरकस्य-चतुःखंड, आम्रफल, तिलाज्य द्रव्यैः(सहस्र,अयुत,लक्ष) संख्यकाभिराहुतिभिः मूलमंत्रेण च तिलाज्येन (शत,सहस्र,अयुत) संख्यकाभिराहुतिभिः ||
(पञ्चमुख-हनुमद्यागे) अत्र प्रधान पञ्चमुख-हनुमद्देवतामुद्दिश्य पञ्चमुखवीर हनुमन्मन्त्रेण गुग्गुल,सर्षप,तिल, सर्षपतैल(तिलतैल) आज्येति पञ्चद्रव्यैः(सहस्र,अयुत,लक्ष) संख्यकाभिराहुतिभिः ||
(सप्तमुख-हनुमद्यागे) अत्र प्रधान सप्तमुख हनुमद्देवतामुद्दिश्य सप्तमुख हनुमत्कवचस्य द्वादशमंत्रेणारभ्य अष्टादशमंत्रान्त महामन्त्रेण गुग्गुल,यव,सर्षप,तिल,पायस,तिलतैल(सर्षपतैल)आज्येति सप्तद्रव्यैः(सहस्र,अयुत,लक्ष) संख्यकाभिराहुतिभिः ||
(एकादश-हनुमद्यागे) - अत्र प्रधानैकादशमुख हनुमद्देवतामुद्दिश्य एकादशमुख हनुमत्कवचस्य नवम मन्त्रेणारभ्य सार्धैकोनविंशति मन्त्रान्त महामन्त्रेण यवतिलगुग्गुलमिश्रद्रव्येण (सहस्र,अयुत,लक्ष) संख्यकाभिराहुतिभिः ||
(एक यजमान कर्तृक हनुमद्वडवानल-यागे)- अत्र प्रधान वड्वानल-हनुमद्देवतां हनुमद् वड्वानल स्तोत्रेण लवेंग,पूंगीफलचूर्ण, जातिफलचूर्ण,ज्येष्ठीमधुकचूर्ण,द्राक्ष द्रव्यैः कृत तांबूलवीटक,तिलाज्यैरीति त्रिर्द्रव्यैः (सहस्र,अयुत,लक्ष) संख्यकाभिराहुतिभिः ||
(हनुमान् सहस्रनाम यागे)- अत्र प्रधान हनुमद्देवतां हनुमान् सहस्र नामावलिभिर्नमोन्त मंत्रैःतिलाज्येन(दशावृत्तिभिराहुतिभिः, शतावृत्तिभिराहुतिभिः,सहस्रावृत्तिभिराहुतिभिर्वा |आवरणदेवताः,पीठदेवताः,सर्वतोभद्रमंडल समन्वितैकलिंगतोभद्रमंडल देवताः, वास्तुपीठदेवताः,योगिनीपीठदेवताः,क्षेत्रपाल- पीठदेवताश्च तिलाज्येन एकैकयाहुत्या(दश दश संख्यकाभिराहुतिभिर्वा)नवग्रहान् प्रीयफलेन वाज्येन एकैकयाऽहुत्या, त्र्यंबकं गुग्गुलेन- इन्द्रं(दुर्गां) सर्षपैः एकैकयाहुत्या, महालक्ष्मीं श्रीसूक्तमंत्रैः मिश्रामृत् द्रव्येण, समस्तव्याहृतिभिः प्रजापतिं अष्टोत्तरशत,सहस्र संख्यकाभिर्वा, हुत शेषेणाग्निं स्विष्टकृतं अग्निं वायुं सूर्यं अग्निवरुणौ अग्निवरुणौ अग्निं वरुणं सवितारं विष्णुं विश्वान्देवान्मरुतःस्वर्क्कान् वरुणमादित्यमदितिं प्रजापतिं श्चैता प्रायश्चिताज्येन एकैकयाहुतिभिः अमुक नाम(हनुमद्) यागाख्य कर्मण्यहं यक्ष्ये || समस्त व्याहृतिनां प्रजापतिर्ऋषिः बृहती छंदः प्रजापतिर्देवता अन्वाधान् समिद्धोमे विनियोगः ||ॐभूर्भुवः स्वः स्वाहा- इदं प्रजापतये न मम ||
ततो सर्वतोभद्रमंडल देवतानावाह्य पश्चात् तदुपरि वस्त्रे एकलिंगतोभद्र मंडल देवतानावाह्य च सम्पूज्य || लिंगतोभद्रमंडल मध्ये पूर्णपात्रान्त कलशं संस्थाप्य || तस्मिन् वरुणं आवाह्य सम्पूज्य || देव दानव संवादे०००|| त्वत्तो ये सर्व तीर्थानि००|| शिवः स्वयं त्वमेवासि०००|| त्वत् प्रसादात् इमां हनुमत् पूजां कर्तुमिहे जलोद्भव | सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा || इति संप्रार्थ्य || हनुमत् पीठ देवताः स्थापनम् --> नमस्कारः - स्ववामे श्री गुरुभ्यो नमः | दक्षिणे गणपतये नमः | मध्ये सरस्वत्यै नमः | इति नत्वा आवाहनम् --> मं मंडूकाय नमः | कं कालाग्निरुद्राय नमः | अां आधारशक्तये नमः | कूं कूर्माय नमः | अं अनंताय नमः | पृं पृथिव्यै नमः | क्षीं क्षीरसागराय नमः | रं रत्नद्वीपाय नमः | रं रत्नसिंहासनाय नमः | आग्नेयां धं धर्माय नमः | नैर्ऋत्यां ज्ञां ज्ञानाय नमः | वायव्यां वैं वैराग्याय नमः | ऐशान्यां ऐं ऐश्वर्याय नमः | पूर्वे अं अधर्माय नमः | दक्षिणे अं अज्ञानाय नमः | पश्चिमे अं अवैराग्याय नमः | उत्तरे अं अनैश्वर्याय नमः | पुनःपीठमध्ये -> आं आनंदकन्दाय नमः | सं संविनालाय नमः | सं सर्वतत्त्वकमलासनाय नमः | प्रं प्रकृतिमय पत्रेभ्यो नमः | विं विकारमय केसरेभ्यो नमः | पं पञ्चाशद्वर्णाढ्य कर्णिकाभ्यो नमः | अं अर्कमण्डलाय द्वादशकलात्मने नमः | सों सोममंडलाय षोडशकलात्मने नमः | वं वह्निमंडलाय दशकलात्मने नमः | सं सत्त्वाय नमः | रं रजसे नमः | तं तमसे नमः | आं आत्मने नमः | पं परमात्मने नमः | अं अंतरात्मने नमः | ह्रीं ज्ञानात्मने नमः | मां मायातत्त्वाय नमः | कं कलातत्त्वाय नमः | विं विद्यातत्त्वाय नमः | पं परतत्त्वाय नमः | पीठशक्तयः--> पूर्वे विमलायै नमः | आग्नेये उत्कर्षिण्यै नमः | दक्षिणे ज्ञानायै नमः | नैर्ऋत्ये क्रियायै नमः | पश्चिमे योगायै नमः | वायव्ये प्रह्व्यै नमः | उत्तरे सत्यायै नमः | ऐशाने ईशानायै नमः | मध्ये अनुग्रहायै नमः | ॐ मनोजुति००|| इति प्रतिष्ठाप्य || पुष्पासनमंत्रः-> ॐ नमो भगवते हनुमते सर्वभूतात्मने हनुमते सर्वात्म संयोग पद्मपीठाय नमः || इति पुष्पासनं पीठोपरि समर्प्य || यंत्रदेवताः-(मारुती यागे) षट्कोण,वृत्त,अष्टदल,भूपुरान्वितम् --->मध्ये ॐ हौं हस्फ्रें ख्फ्रें ह्स्रौं हस्ख्फ्रें ह्सौं हनुमते नमः हनमन्तं आवा०स्था | अथ षट् कोण केसरेषु आग्नेयादि चतसृषु दिक्षु मध्ये दिक्षु च || ॐ हौं हृदयाय नमः हृदयशक्तिं आवा०स्था०| ॐ हस्फ्रें शिरसे स्वाहा शिरःशक्तिं आवा०स्था०| ॐ ख्फ्रें शिखायै वषट् शिखाशक्तिं आवा०स्था० | ॐ ह्स्रौं कवचाय हुम् कवचशक्तिं आवा०स्था०| ॐ हस्ख्फ्रें नेत्रत्रयाय वौषट् नेत्रत्रयशक्तिं आवा०स्था० | ॐ ह्सौं अस्त्राय फट् अस्त्रशक्तिं आवा०स्था०|| इति प्रथमाऽवरणम् || अष्टदलेषु-> रामभक्ताय नमः | महातेजसे नमः | कपिराजाय नमः | महाबलाय नमः | द्रोणाद्रिहारकाय नमः | मेरुपीठार्चनकारकाय नमः | दक्षिणाशाभास्कराय नमः | सर्वविघ्ननिवारकाय नमः | इति द्वितीयाऽवरणम् || पुनः अष्टदलाग्रेषु--> सुग्रीवाय नमः | अंगदाय नमः | नीलाय नमः | जांबवते नमः | नलाय नमः | सुषेणाय नमः | द्विविदाय नमः | मयंदाय नमः || इति तृतीयाऽवरणम् || भूपुरे पूर्वादिदशदिक्षु-> लं इंद्राय नमः | रं अग्नये नमः | मं यमाय नमः | क्षं निर्ऋतये नमः | वं वरुणाय नमः | यं वायवे नमः | कुं कुबेराय नमः | हं रुद्राय नमः | आं ब्रह्मणे नमः | अं अनन्ताय नमः | इति चतुर्थाऽवरणम् || पुनः भूपुरे इन्द्रादि समीपे -> वं वज्राय नमः | शं शक्तये नमः | दं दण्डाय नमः | खं खड्गाय नमः | पां पाशाय नमः | अं अंकुशाय नमः | गं गदायै नमः | त्रिं त्रिशूलाय नमः | पं पद्माय नमः | चं चक्राय नमः || इति पञ्चमाऽवरणम् ||
(पञ्चमुख हनुमद्यागे ) -> मध्ये ॐ हरिमर्कटाय स्वाहा पञ्चमुख हनुमन्तं आवा०स्था | षट्कोणकेसरेषु आग्नेयादि चतुर्कोणेषु मध्ये दिक्षु च | ॐ अञ्जनीसुताय हृदयाय नमः | ॐ रुद्रमूर्तये शिरसे स्वाहा | ॐ वायुपुत्राय शिखायै वषट् | ॐ अग्निगर्भाय कवचाय हुम् | ॐरामदूताय शिखायै वषट् | ॐ पञ्चमुख हनुमते अस्त्राय फट् || इति प्रथमाऽवरणम् || अष्टदलेषु-> पूर्ववत् रामभक्तादिन् | इति द्वितीयाऽवरणम् || पुनस्तथैव दलाग्रेषु ~> पूर्ववत् सुग्रीवादिन् || इति तृतीयाऽवरणम् || भूपुरे~> इन्द्रादिदिक्पालान् ||इति चतुर्थाऽवरणम् || पुनस्तथैव इन्द्रादि समीपे ~> वज्राद्यायुधानि || इति पञ्चमाऽवरणम् || (सप्तमुख एवं वड्वानल हनुमद्यागे)~> षट्कोण वृत्ताष्टदल भूपुर- त्रयान्वित यत्रम् || मध्ये ॐह्रांह्रींह्रूंह्रैंह्रौंह्रःसप्तमुखवीर हनुमते नमः सप्तमुखवीर हनुमन्तं आवा०स्था०(हनुमद्वड्वानल यागे- ॐह्रांह्री वड्वानलहनुमते नमः वड्वानल हनुमन्तं आवा०स्था० शेष द्वये समानमेतत् ) षट्कोण केसरेषु->ॐ ह्रां हृदयाय नमः | ॐ ह्रीं शिरसे स्वाहा | ॐ ह्रूं शिखायै वषट् | ॐ ह्रैं कवचाय हुम् | ॐ ह्रौं नेत्रत्रयाय वौषट् | ॐ ह्रः अस्त्राय फट् | इति प्रथमाऽवरणम् || पूर्वाद्यष्टदलेषु~> पूर्वोक्त रामभक्तादिन् इति द्वितीयाऽवरणम् || पुनस्तथैव पत्राग्रेषु-> सुग्रीवादिन् इति तृतीयाऽवरणम् || तथैव दलसन्धिषु-> रक्षोघ्नाय नमः | ॐ विषघ्नाय नमः | ॐ रिपुघ्नाय नमः | ॐ व्याधिघ्नाय नमः | ॐ चोरघ्नाय नमः | ॐ भूतघ्नाय नमः | ॐपरशस्त्रास्त्रमन्त्रघ्नाय नमः | ॐ भयघ्नाय नमः इति चतुर्थाऽवरणम् | भूपुरे प्रथम रेखायाम् -> प्रागादि दशदिक्षु ऐरावताय नमः | पुण्डरीकाय नमः | वामनाय नमः | कुमुदाय नमः | अञ्जनाय नमः | पुष्पदन्ताय नमः | सार्वभौमाय नमः | सुप्रतिकाय नमः | इति पञ्चमाऽवरणम् || भूपुरे द्वितीय रेखायाम् इंद्रादि दशदिक्पालान् इति षष्ठाख्याऽवरणम् || भूपुरे तृतीय रेखायाम् - वज्राद्यायुधानि इति सप्तमाऽवरणम् ||
(एकादशमुख हनुमद्यागे)~ षट्कोण,वृत्त,अष्टदल,भूपुरत्रयान्वित यन्त्रम् -> मध्ये ॐस्फ्रें क्रौं क्षं ग्लौं वं रां वं ह्रां सौं ह्रीं रं स्वाहा- एकादशमुख वीरहनुमन्तं आवा०स्था० | षट्कोण केसरेषु ~> ॐ स्फ्रें क्रों हृदयाय नमः | ॐ क्षं ग्लौं शिरसे स्वाहा | ॐ वं रां शिखायै वषट् | ॐ वं ह्रां शिखायै वषट् | ॐ सौं ह्रीं कवचाय हुम् | ॐ रं स्वाहा अस्त्राय फट् || शेष षट् आवरेणेषु सप्तमुख हनुमद्वत् इति सप्ताऽवरणान्वित एकादशमुखी हनुमान् यंत्रं ॐयंत्रराजाय विद्महे महायंत्राय धीमहि | तन्नो यंत्रः प्रचोदयात् पञ्चोपचारैः सम्पूज्य ||| भस्मधारण रुद्राक्षमाला धारणं च कृत्वा | भूशुद्धिः- ॐ ह्रां आत्मतत्त्वाय स्वाहा / ॐ ह्रीं विद्यातत्त्वाय स्वाहा / ॐ ह्रूं शिवतत्त्वाय स्वाहा/ ॐ ह्रां ह्रीं ह्रूं सर्वतत्त्वाय स्वाहा इति आचम्य || पूरके षोडशप्रणवावृत्तिभिः- कुम्भके चतुःषष्ठीप्रणवावृत्तिभिः- रेचके द्वात्रिंशत् प्रणवावृत्तिभिश्च एवमेव त्रिः प्राणानायम्य | देशकालौ संकीर्तनान्ते अमुक हनुमत् पूजा कर्तुं योग्यता सिद्ध्यर्थं भूशुद्धिं भूतशुद्धिं च करिष्ये | नमस्कारः दक्षिणे सरस्वत्यै नमः | शंखनिधये नमः | वामे लक्ष्म्यै नमः | पद्मनिधये नमः | पृथ्वित्वयेत्यस्य मेरुपृष्ठ ऋषिः सुतलं छंदः कूर्मो देवता आसने विनियोगः | उत्तानाभ्यां हस्ताभ्यां भूमिं स्पृष्ट्वा ॐ पृथ्वि त्वया००| सपरिवारायै भूम्यै नमः सर्वोपचारार्थे गंधपुष्पे समर्पयामि | आसन प्रार्थना - > ॐ विश्व शक्त्यै नमः | ॐ महाशक्त्यै नमः | ॐ कूर्मासनाय नमः| ॐ योगासनाय नमः | ॐ अनन्तासनाय नमः | ॐ विमलासनाय नमः |मध्ये ॐ परमसुखासनाय नमः | हृदये हस्तं दत्वा ॐ आत्मासनाय नमः | शिखाबन्धनम् - ॐ मानस्तोके०| दिग्रक्षणम् - ॐअध्यवोचदधि०| तालत्रयकरणम् ॐ तीक्ष्ण दंष्ट्र महाकाय ००| स्वस्य परितः अस्त्रमुद्रां प्रदर्शयेत् ॐ सर्वभूत निवारकाय शार्ङ्गाय सशराय सुदर्शनाय अस्त्रराजाय हुं फट् स्वाहा | स्वदक्षिणे गुरुभ्यो नमः | परमगुरुभ्यो नमः | परमेष्ठीगुरुभ्यो नमः | परात्पर गुरुभ्यो नमः | सिद्धेभ्यो नमः | आचार्येभ्यो नमः | स्ववामे गं गणपतये नमः | दुं दुर्गायै नमः | क्षें क्षेत्रेशाय नमः | बं बटुकाय नमः | यों योगिनीभ्यो नमः | क्षें क्षेत्रपालाय नमः | पुरतः स्वाग्रे ॐ हं हनुमते नमः | अपक्रामन्तु भूतानि ००| भूरसीत्यस्य प्रजापतिर्ऋषिः प्रस्तारपङ्क्तिश्छंदः मातृका देवता भूशुद्धौ विनियोगः | भूमौ हस्तं दत्वा ॐ भूरसि भूमिरस्य ००|| जो भूतानामित्यस्य कौण्डिन्य ऋषिः अनुष्टुप् छंदः नारायणो देवता भैरवनमस्कारे विनियोगः | ॐ जो भूतानामधिपतिर्ज्जस्मिँल्लोका००|| भैरवाय नमः || संक्षेपतः भूतशुद्धिः -> ज्योतिर्मंत्रं महेशानि अष्टोत्तरशतं जपेत् | एतज्जविज्ञान मात्रेण भूतशुद्धिं विधियते || ॐ हौं इति १०८ जपेत् || न्यासाः- (१) अन्तर्मातृकान्यासः (२) बहिर्मातृकान्यासः (३) श्रीकण्ठादिन्यासः (४) प्रयोगोक्त न्यासाः (तेषु- प्रथम) मारुती यागे -> अस्य श्री हनुमन् मंत्रस्य श्री रामचंद्र ऋषिः जगती छंदः हनुमान् देवता हौं बीजम् हस्फ्रें शक्तिः हनुमतेति कीलकम् न्यासे विनियोगः || श्री रामचंद्र ऋषये नमः शिरसि/ जगती छंदसे नमः मुखे / हनुमान् देवतायै नमः हृदये / हौं बीजाय नमः गुह्ये / हस्फ्रें शक्तये नमः पादयोः / हनुमत् कीलकाय नमः नाभौ / विनियोगाय नमः सर्वांगे | कराङ्गन्यासौ-> ॐ हौं अंगुष्ठाभ्यां नमः / ॐ हस्फ्रें तर्जनीभ्यां नमः/ ॐ ख्फ्रें मध्यमाभ्यां नमः / ॐह्स्रौं अनामिकाभ्यां नमः/ ॐ हस्ख्फ्रें कनिष्ठिकाभ्यां नमः / ॐ ह्सौं करतल करपृष्ठाभ्यां नमः / एवमेव हृदयादि षडंगानि विन्यस्य || वर्णन्यासः- ॐ हौं नमः मूर्ध्नि/ ॐ हस्फ्रें नमः ललाटे/ ॐ ख्फ्रें नमः नेत्रयोः/ ॐ हस्रौं नमः मुखे / ॐ हस्ख्फ्रें नमः कण्ठे / ॐ ह्सौं नमः बाह्वोः/ ॐ हं नमः हृदि/ ॐ नुं नमः कुक्ष्योः/ ॐ मं नमः नाभौ/ ॐ तें नमः लिङ्गे/ ॐ नं नमः जान्वोः/ ॐ मं नमः पादयोः || पदन्यासः-> ॐ हौं नमः मूर्ध्नि/ ॐ हस्फ्रें नमः ललाटे/ ॐ ख्फ्रें नमः मुखे/ ॐ हस्रौं नमः हृदि/ ॐ हस्ख्फ्रें नमः नाभौ/ ॐ ह्सौं नमः ऊर्वोः/ ॐ हनुमते नमः जङ्घयोः/ ॐ नमः पादयोः ||
(पञ्चमुख हनुमद् यागे)~ पञ्चमुख हनुमन्मंत्रस्य श्री रामचंद्र ऋषिः अनुष्टुप् छंदः पञ्चमुख वीर हनुमान् देवता हनुमानिति बीजम्, वायुपुत्र इति शक्तिः अंजनीसुत इति कीलकम् श्री रामदूत हनुमत्प्रसाद सिद्ध्यर्थे विनियोगः ||ॐ श्री रामचंद्र ऋषये नमः शिरसि| अनुष्टुप् छंदसे नमः मुखे | पञ्चमुखवीरहनुमान्देवतायै नमः हृदये | हनुमान् इति बीजाय नमः गुह्ये | वायुपुत्र इति शक्तये नमः पादयोः | अञ्जनसुत इति कीलकाय नमः नाभौ | श्रीरामदूत. हनुमत्प्रसाद सिद्ध्यर्थे विनियोगाय नमः सर्वांगे | कराङ्गन्यासौ-> ॐअञ्जनी सुताय अंगुष्ठाभ्यां नमः | ॐरुद्रमूर्तये तर्जनीभ्यां स्वाहा | ॐ वायुपुत्राय मध्यमाभ्यां वषट् | ॐ अग्निगर्भाय अनामिकाभ्यां हुम् | ॐ रामदूताय कनिष्ठिकाभ्यां वौषट् | ॐ पञ्चमुख हनुमते करतल-करपृष्ठाभ्यां नमः ||एवमेव हृदयादि षडंगानि विन्यस्य || ॐ पञ्चमुख हनुमते स्वाहा इति स्वस्य परितः तर्जन्यङ्गुष्ठास्फोटनेन दिग्बंधः || दिक् नमस्कारः - पूर्वे - ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रु संहारणाय स्वाहा | दक्षिणे - ॐ नमो भगवते पञ्चवदनाय दक्षिण मुखाय करालवदनाय नरसिंहाय सकल भूत प्रमथनाय स्वाहा | पश्चिमे - ॐ नमो भगवते पञ्चवदनाय पश्चिम मुखाय गरुडाननाय सकलविष हराय स्वाहा | उत्तरे - ॐ नमो भगवते पञ्चवदनायोत्तर मुखायादिवराहाय सकल सम्पत्कराय स्वाहा | ऊर्ध्वायाँ- ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजन वशंकराय स्वाहा |
(सप्तमुख हनुमद् यागे )~ ॐ सप्तमुख वीर हनुमन्मंत्रस्य नारद ऋषिः अनुष्टुप् छंदः श्री सप्तमुखीकपिः परमात्मा देवता ह्रां बीजम् ह्रीं शक्तिः ह्रूं कीलकम् सर्वाभीष्ट सिद्ध्यर्थे विनियोगः |ॐ नारदर्षये नमः शिरसि | अनुष्टुप् छंदसे नमः मुखे | श्री सप्तमुखी कपिः परमात्मा देवतायै नमः हृदये | ह्रां बीजाय नमः गुह्ये | ह्रीं शक्तये नमः पादयोः | ह्रूं कीलकाय नमः नाभौ | विनियोगाय नमः सर्वांगे | कराङ्गन्यासौ-> ॐ ह्रां अंगुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐ ह्रूं मध्यमाभ्यां नमः | ॐ ह्रैं अनामिकाभ्यां नमः | ॐ ह्रौं कनिष्ठिकाभ्यां नमः | ॐ ह्रः करतल-करपृष्ठाभ्यां नमः | एवमेव हृदयादि षडंगानि विन्यस्य |
(एकादशमुख हनुमद् यागे )~ ॐ एकादशमुख हनुमन्मंत्रस्य सनन्दन ऋषिः अनुष्टुप् छंदः प्रसन्नात्मा एकादशमुखी वीर हनुमान् देवता वायुसुत इति बीजं मुख्यप्राण शक्तिः इष्टार्थे विनियोगः | ॐ सनन्दन ऋषये नमः शिरसि | अनुष्टुप् छंदसे नमः मुखे | प्रसन्नात्मा एकादशमुखी वीर हनुमान् देवतायै नमः हृदये | वायुसुत इति बीजाय नमः गुह्ये | मुख्य प्राण इति शक्तये नमः पादयोः | विनियोगाय नमः सर्वांगे | कराङ्गन्यासौ-> ॐ स्फ्रें क्रों अंगुष्ठाभ्यां नमः | ॐ क्षं ग्लौं तर्जनीभ्यां नमः | ॐ वं रां मध्यमाभ्यां नमः | ॐ वं ह्रां अनामिकाभ्यां नमः | ॐ सौं ह्रीं कनिष्ठिकाभ्यांनमः | ॐ रं स्वाहा करतल-करपृष्ठाभ्यां नमः | एवमेव हृदयादि षडंगानि विन्यस्य |
(हनुमद् सहस्र नाम यागे)~ हनुमत् सहस्र नाम स्तोत्रमंत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छंदः हनुमान् देवता रां बीजं मं शक्तिः श्री हनुमत्प्रसाद सिद्ध्यर्थे विनियोगः | ॐ ब्रह्मर्षये नमः शिरसि | अनुष्टुप् छंदसे नमः मुखे | हनुमान् देवतायै नमः हृदये | रां बीजाय नमः गुह्ये | मं शक्तये नमः पादयोः | श्री हनुमत्प्रसाद सिद्ध्यर्थे विनियोगाय नमः सर्वांगे | कराङ्गन्यासौ-> ॐ हनुमते अंगुष्ठाभ्यां नमः | ॐ लंकाविध्वंसकाय तर्जनीभ्यां नमः | ॐ अंजनीगर्भ संभूताय मध्यमाभ्यां नमः | ॐ शाकिनीडाकिनी विध्वंसनाय अनामिकाभ्यां नमः | ॐ किलिकिलि बुबुकारेण विभीषणाय हनुमद्देवाय कनिष्ठिकाभ्यां नमः | ॐ ह्रीं श्रीं ह्रौं ह्रां फट् स्वाहा करतल-करपृष्ठाभ्यां नमः | एवमेव हृदयादि षडंगानि विन्यस्य || पूजाङ्गकलशे - पम्पापूजां करिष्ये | ॐ इमम्मे०| हेमकूट गिरिप्रान्त जनानां गिरि सानुगम् | पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः || इत्यावाह्य || पञ्चोपचारैः सम्पुज्य || नमस्कारः- अपराध शतं देवि मत्कृतं च दिने दिने | क्षम्यतां पावने देवि पम्पा नदि नमोस्तुते || पम्पानदि महापुण्य तरङ्गिणि नमोऽस्तु ते | त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता || मनोरथफलाऽवाप्तिस्तस्याऽभीष्टं न संशयः | सुग्रीवेण च तीरेऽस्मिन् कपिवर्यपतेव्रतम् || सत्कृतं च मनोवाञ्छा सद्यस्तस्य बभूव सा | अतस्त्वन्नीर पुलिने कृते हनुमतो व्रते || श्रेयांसि मम सर्वाणि निर्विघ्नानि भवन्त्विह || तत् कलशोदकेन सर्वाणि पूजापात्राणि प्रपूर्य || तनैवुदकेन पूजोपहाराणां प्रोक्षेत् - हनुमत् पूजा कालेषु यानि यानिह साम्प्रतम् | वस्तुनि सौरभाढ्यानि पवित्राणि भवन्तु वै ||
हनुमत् पूजा प्रयोगः-> कृताग्न्युत्तारण मूर्तौ ॐ अस्मेरुद्रा० इत्यस्य प्रगाथ ऋषिः त्रिष्टुप् छंदः ब्रह्मा देवता हनुमान् (पञ्चमुखीहनुमान्, सप्तमुखी हनुमान् ,एकादशमुखीहनुमान् , वड्वानल हनुमान् ) आवाहने विनियोगः- ॐ अस्मेरुद्रा००|| आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर | अरण्यमिव हव्यांशं मूर्तावावाहयाम्यहम् || देवेश भक्तिसुलभ सर्वाभरणसंयुत | यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरो भव || ॐ भूर्भुवःस्वः अमुक हनुमते नमः अमुक हनुमन्तं आवा०स्था०|| आवाहनादि मुद्राः प्रदर्श्य ||ॐ मनोजुति० इति प्रतिष्ठाप्य || ध्यानानि (मारुती यागे)-> शार्दूलवि००छंदः #बालार्कायुत_तेजसं_त्रिनयनं_प्रक्षोभकं_सुन्दरं
#सुग्रीवादी_समस्त_वानरगणैराराधितं_साञ्जलिम् |
#नादेनैव_समस्त_राक्षसगणान्_संत्रासयन्तं_प्रभुं
#श्रीमद्रामपदाम्बुज_स्मृतिरतं_ध्यायामि_वातात्मजम् ||
(पञ्चमुख हनुमान्)~ #वन्दे_वानर_नारसिंह_खगराट्_क्रोडाश्व_वक्त्रान्वितं
#दिव्यालंकरणं_त्रिपञ्चनयनं_दैदीप्यमानं_रुचा ||
#हस्ताब्जैरसि_खैट_पुस्तक_सुधाकुम्भाऽकुंशाद्रिं_हलं
#खट्वाङ्गं_फणि_भूरुहं_दशभुजं_सर्वारि_वीरापहम् ||
(सप्तमुख हनुमान्)~> #वन्दे_वानर_सिंह_सर्प_रिपु_वाराहाश्व_गो_मानुषै-
#र्युक्तं_सप्तमुखैः_करैर्द्रुमगिरिं_चक्रं_गदां_खेटकम् |
#खट्वाङ्गं_हलमङ्कुशं_फणि_सुधा_कुम्भौ_शराब्जाभयान्
#शूलं_सप्त_शिखं_दधानममरः_सेव्यं_कपिं_कामदम् ||
(एकादशमुख हनुमान्)~ #अपाद_मस्तकं_पातु_रामदूतो_महाबलः | #पूर्वे_वानरवक्त्रो_मां_चाऽग्नेयां_क्षत्रियान्तकृत् || #दक्षिणे_नारसिंहस्तु_नैर्ऋत्यां_गणनायकः | #वारुण्यं_दिशि_मामव्यात्_खवक्त्रो_हरीश्वरः || #वायव्यां_भैरवमुखः_कौबेर्याँ_पातु_मे_सदा | #क्रोडास्यः_पातु_मां_नित्यमीशान्यां_रुद्ररूपधृक् || #रामस्तु_पातु_मां_नित्यं_सौम्यरूपी_महाभुजः |
#एकादश_मुखस्यैतद्_दिव्यं_वै_कीर्तितं_मया ||
(वड्वानल हनुमान्) #मनोजवं_मारुतऽतुल्यवेगं००||
(सहस्रनाम यागे)- > #ध्यायेद्बाल_दिवाकर_द्युतिनिभं_देवारि_दर्पापहं
#देवेन्द्र_प्रमुख_प्रशस्त_यशसं_दैदीप्यमानं_रुचा | #सुग्रीवादि_समस्त_वानरयुतं_सुव्यक्त_तत्त्वप्रियं
#संरक्तारुण_लोचनं_पवनजं_पीताम्बरालङ्कृतम् || #उद्यदादित्य_सङ्काशमुदार_भुज_विक्रमम् | #कन्दर्प_कोटि_लावण्यं_सर्व_विद्या_विशारदम् || #श्रीराम_हृदयानन्दं_भक्त_कल्पमहीरुरम् |
#अभयं_वरदं_दोर्भ्यां_चिन्तयेत्मारुतात्मजम् || इति प्रयोगानुसारेण ध्यात्वा- अरे ! मल्ल खे तोडर मल्ल खे इत्युच्चारणेन वानरी(कपि)मुद्रां दर्शयेत् --> (मुद्रालक्षणम् - वानरी चाऽस्ति मुद्रेयं तां श्रृणुश्व वदाम्यहम् | करौ सम्पुटितौ कृत्वा समश्लिष्टाऽङ्गुली स्फुटा || तर्जन्याश्चाङ्गुलीमुले कृत्वा द्वङ्गुष्ठयोरपअङ्गुल्यःपाणयोः सर्वा अन्तर्गर्भस्थिराः कुरु || हृदयोपरिस्थितास्तास्तु मुकुलाकृतिसंयुताः | स्वामि(हनुमान्) पादे स्थिरा दृष्टिर्मुद्रा स्याच्च स्थिराऽपि तु || ज्ञेयेयं वानरी मुद्रा चैका मन्त्रपथे ध्रुवा ||हनु०पं०प||) आसनादि पुष्पमालान्तं उपचारैः सम्पूज्य ||अङ्गपूजा||~> श्री रामदूताय नमः पादौ पूज०/ सीताशोकनिवारकाय नमः गुल्फौ पूज०/ लक्ष्मणप्राणदात्रे नमः जंघे पूज०/ रुद्रमूर्तये नमः उरू पूज०/ वायुपुत्राय नमः नाभिं पूज०/ यज्ञगर्भाय नमः हृदयं पूज०/ शिवसूनवे नमः कंठं पूज०/ ब्रह्मास्त्रनिवारकाय नमः बाहू पूज०/ कपिराजाय नमः मुखं पूज०/ महातेजसे नमः नासिकां पूज०/ रिपुघ्नाय नमः नेत्रे पूज०/ व्याधिघ्नाय नमः कर्णौ पूज०/ रामप्रियाय नमः ललाटं पूज०/ शूराय नमः शिरः पूज०/ योगिने नमः सर्वांगं पूज०|| प्रयोगोक्ता आवरण पूजां कुर्यात् || हनुमन्नामावलीभिः अक्षतैर्वाबिल्वपत्रैः अष्टोतरशतंसहस्रं वा सम्पूज्य | सौभाग्य द्रव्यादि विशेषार्घ पर्यन्तोपचारैः पूजयित्वा प्रार्थयेत् -> यो वारान्निधिमल्प पल्लवमिवोल्लङ्घ्य प्रतापान्वितो - वैदेही घनशोक तापहरणो वैकुण्ठ भक्तप्रियः | अक्षाद्युर्जित राक्षसेश्वर महादर्पापहारी रणे - सोऽयं वानर पुङ्गवोऽवतु सदा चास्मान् समीरात्मजः | संग्रामे शत्रुमध्ये जलनिधितरणे व्याघ्रसिंहे च सर्पे - राजद्वारे च मार्गे गिरिगुहविवरे चोषरे कन्दरे वा | भूत प्रेतादि युक्ते ग्रहगण विषये शाकिनी डाकिनीनां - देशे विस्फोटकानां ज्वर वमन शिरः पीड़ने नाशकत्वम् ||अनया पूजया अमुक हनुमतः प्रीयतां न मम || ऐशान्यां ग्रहपीठे स्ताःदेवतानावाह्य संपूज्य | ग्रहपीठादुत्तरे रुद्रकलशपीठे पूर्णपात्रान्त कलशं संस्थाप्य तत्र वरुणं च (असंख्यायेति सम्पूज्यो रुद्रो रुद्रघटाम्भसि) रुद्रसूक्तजपः ||
ब्रह्मासनादि (प्रयोगानुसारेण चरुं वा चरुवर्जं) आज्यभागान्तं समाप्य | इमानि सम्पादितानि अन्वाधानोक्त हवनीयद्रव्याणि अन्वाधानोक्तदेवताभ्यश्च न मम || ॐ भूर्भुवः स्वः रुद्रनाम्नेवैश्वानराय नमः इति बर्हिर्नैवेद्यान्तं सम्पूज्य |ग्रहमखं(अयुताधिक होमे शेषादि मनुष्यांत विशेष देवतानां एकैकसंख्यया होमम्)|| होम मन्त्राः(मारुती यागे)~ ॐ अस्मेरुद्रा००स्वाहा || इत्यनेन मंत्रेण कदलीफल,बीजपूरकस्य चतुःखंड, आम्रफल, तिल,आज्य इति पञ्चद्रव्यैरेकाहुतिः (एवं अन्वाधानोक्त संख्यया)||मूलमन्त्रः- ॐ हौं हस्फ्रें ख्फ्रें ह्स्रौं हस्ख्फ्रें ह्सौं हनुमते नमः(स्वाहा) तिलाज्येन (अन्वाधानोक्त संख्यया) ||
(पञ्चमुख हनुमद् यागे)->
ॐपञ्चवदनाञ्जनेयाय नमः | ॐ अस्य श्री पञ्चमुख हनुमन्मंत्रस्य श्रीरामचंद्र ऋषिः अनुष्टुप् छंदः पंचमुख वीर हनुमान् देवता हनुमान् इति बीजम् वायुपुत्र इति शक्तिः अंजनिसुत इति कीलकम् श्री रामदूत हनुमत्प्रसाद सिद्ध्यर्थे (होमे) विनियोग: || पंचमुख हनुमान् न्यासानुसारेण स्वदेहे विन्यस्य | ध्यात्वा || नमस्कारः- ॐ श्री रामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लंकादहनकारणाय महाबलप्रचंडाय फाल्गुनसखाय कोलाहलाय सकल-ब्रह्मांड- विश्वरूपाय सप्तसमुद्रनिर्लंघनाय पिंगलनयनायामित-विक्रमाय सूर्यबिंबफल-सेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय संजीवनी-संजीवितांगद-लक्ष्मण- महाकपि-सैन्य-प्राणदाय दशकंठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्-प्रयोगागम-आध्यात्मिक-उन्नतौ पंचमुखवीर हनुमन्मंत्र (होमे) विनियोगः || मूलमंत्रः- ॐ हरि मर्कट मर्कटाय वं वं वं वं वं वौषट् स्वाहा ॐ हरि मर्कट मर्कटाय फं फं फं फं फं फट् स्वाहा ॐ हरि मर्कट मर्कटाय खें खें खें खें खें मारणाय स्वाहा ॐ हरि मर्कट मर्कटाय लुं लुं लुं लुं लुं आकर्षित सकल सम्पत्कराय स्वाहा ॐ हरि मर्कट मर्कटाय धं धं धं धं धं शत्रु स्तम्भनाय स्वाहा ॐ टं टं टं टं टं कूर्म मूर्तये पंचमुख वीर हनुमते पर यन्त्र पर तंत्रोच्चाटनाय स्वाहा ॐ कं खं गं घं ङं / चं छं जं झं ञं / टं ठं डं ढं णं / तं थं दं धं नं / पं फं बं भं मं / यं रं लं वं / शं षं सं हं ळं क्षं स्वाहा ॐ पूर्व कपिमुखाय पंचमुख हनुमते टं टं टं टं टं सकल शत्रु संहारणाय स्वाहा ॐ दक्षिणमुखाय पंचमुख हनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकल भूत प्रेत दमनाय स्वाहा ॐ पश्चिममुखाय गरुडाननाय पंचमुख हनुमते मं मं मं मं मं सकल विष हराय स्वाहा ॐ उत्तरमुखायादिवराहाय लं लं लं लं लं नृसिंहाय नीलकंठमूर्तये पंचमुख हनुमते स्वाहा ॐ ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तये सकल प्रयोजन निर्वाहकाय स्वाहा ॐ अंजनीसुताय वायुपुत्राय महाबलाय सीता-शोक-निवारणाय श्री रामचंद्र कृपा पादुकाय महावीर्य प्रमथनाय ब्रह्मांडनाथाय कामदाय पंचमुख वीर हनुमते स्वाहा भूत प्रेत पिशाच ब्रह्मराक्षस शाकिनी डाकिन्यन्तरिक्षग्रह परयंत्र परतंत्रोच्चाटनाय स्वाहा सकल प्रयोजन निर्वाहकाय पंचमुख वीर हनुमते श्री रामचंद्र वर प्रसादाय जं जं जं जं जं स्वाहा || इत्येकामंत्रेण गुग्गुल,सर्षप,तिल,सर्षपतैल( वा तिलतैल), आज्येति पंचद्रव्यैःएकाहुतिः(अन्वाधानोक्त संख्यया)|
(सप्तमुख हनुमद् यागे)~ ॐ अस्य श्री सप्तमुखी वीर हनुमन्महामंत्रस्य नारद ऋषिः अनुष्टुप् छंदः श्री सप्तमुखी कपिः परमात्मा देवता ह्रां बीजम् ह्रीं शक्तिः ह्रूं कीलकम् सर्वेष्ट सिद्ध्यर्थे होमे विनियोगः || सप्तमुखी हनुमान् न्यासानुसारेण स्वदेहे विन्यस्य ||ध्यात्वा || प्रथमं कवचं पठेत् - ब्रह्मोवाच || सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् | जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते || सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः | सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् || त्रिःसप्तनेत्रो नेत्रेऽव्यात् सप्तस्वरगतिः श्रुती | नासां सप्तपदार्थोऽव्यान्मुखं सप्तमुखोऽवतु ||सप्तजिह्वस्तु रसनां रदान् सप्तहयोऽवतु | सप्तच्छन्दो हरिः पातु कण्ठं बाहू गिरिस्थितः || करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः | सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः || सप्तद्वीपपतिश्चित्तं सप्तव्याहृतिरूपवान् | कटिं में सप्तसंस्थार्य दायकः सक्थिनी मम || सप्तग्रहस्वरूपी मे जानुनी जङ्घयोस्तथा | सप्तधान्यप्रियः पादौ सप्तपातालधारकः || पशून् धनं च धान्यं च लक्ष्मींलक्ष्मीप्रदोऽवतु | दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः || अनुक्तस्थानमपि मे पायाद् वायुसुतः सदा | चौरेभ्यो व्यालदंष्ट्रिभ्यः श्रृङ्गिभ्यो भूत राक्षसात् || दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद् भयात् | दंष्ट्राकरालवदनो हनुमान् मां सदाऽवतु || परशस्त्रमन्त्र तन्त्र यन्त्राग्नि जल विद्युतः | रुद्रांशः शत्रुसङ्ग्रामात् सर्वावस्थासु सर्वभृत् || इति || होमः- सप्तमंत्रान्ते ~> ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठं /ठं /ठं /ठं /ठं /ठं /ठं ॐ नमः स्वाहा ||१||
ॐ नमो भगवते सप्तवदनाय द्वितीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हं /हं /हं /हं /हं /हं /हं ॐ नमः स्वाहा ||२||
ॐ नमो भगवते सप्तवदनाय तृतीयगरुडवक्त्राय वज्रदंष्ट्राय महाबलाय सर्वरोगविनाशनाय मं/मं/मं/मं/मं/मं/मं ॐ नमः स्वाहा ||३||
ॐ नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकाय पुत्राद्यभिवृद्धिकराय लं/लं/लं/लं/लं/लं/लं/ ॐ नमः स्वाहा ||४||
ॐ नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्तये सर्ववशीकरणाय सर्वागमस्वरूपाय रुं/रुं/रुं/रुं/रुं/रुं/रुं ॐनमःस्वाहा||५|| ॐ नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यरूपाय सर्व-रोगहराय मुक्तिदात्रे ॐ/ॐ/ॐ/ॐ/ॐ/ॐ/ॐ/ॐ नमः स्वाहा ||६||
ॐ नमो भगवते सप्तवदनाय सप्तमानुषमुखाय रुद्रावताराय अञ्जनीसुताय सकलदिग्यशोविस्तारकाय वज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय लङ्कादहनाय अनेकराक्षसान्तकाय रामानन्ददायकाय अनेकपर्वतोत्पाटकाय सेतुबन्धकाय कपिसैन्यनायकाय रावणान्तकाय (ब्रह्मचर्याश्रमिणे) कौपीनब्रह्मसूत्रधारकाय रामहृदयाय सर्वदुष्टग्रहनिवारणाय /शाकिनी डाकिनी वेताल ब्रह्मराक्षस भैरवग्रह यक्षग्रह पिशाचग्रह ब्रह्मग्रह क्षत्रियग्रह वैश्यग्रह शूद्रग्रहान्त्यजग्रह म्लेच्छग्रह सर्पग्रहोच्चाटकाय/ मम(*अस्माकं ) सर्वकार्यसाधकाय सर्वशत्रुसंहारकाय /सिंहव्याघ्रादि दुष्ट सत्त्वाकर्षकायैकाहिकादि विविधज्वरच्छेदकाय/ परयन्त्र मन्त्र तन्त्र नाशकाय/ सर्वव्याधि निकृन्तकाय/ सर्पादिसर्वस्थावर जङ्गम विषस्तम्भनकराय/सर्वराजभय चोरभयाऽऽग्निभय प्रशमनायाऽऽध्यात्मिकाऽऽधिदैविकाधिभौतिक तापत्रय निवारणाय/ सर्वविद्या सर्वसम्पत् सर्वपुरुषार्थदायकायाऽसाध्यकार्य साधकाय/ सर्ववरप्रदाय सर्वाऽभीष्टकराय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ नमः स्वाहा||७|| इति सप्तमन्त्रान्ते गुग्गुल,यव,सर्षप,तिल,पायस,तिलतैल(सर्षपतैल),आज्येति सप्तद्रव्यैः एकाहुतिः भवति(अन्वाधानोक्त संख्यया)| नियतसंख्याक होमान्ते फलश्रुतिः पठेत् ->||अथर्वण रहस्योक्त सप्तमुख हनुमत्कवचे दृष्टव्यः ||
(एकादशमुख हनुमद् यागे)~ ॐ अस्य श्री कवचस्यैकादशवक्त्रस्य हनुमन्मन्त्रस्य सनन्दन ऋषिः अनुष्टुप् छंदः प्रसन्नात्मा हनुमान्देवता वायुसुत इति बीजं प्राण इति शक्तिः सर्वकामार्थ सिद्ध्यर्थे होमे विनियोगः -> न्यासाः- ॐ स्फ्रें बीजशक्तिधृक् पातु शिरो मे पवनात्मजः | अंगुष्ठाभ्यां नमः || क्रौं बीजात्मा नयनयोः पातु मां वानरेश्वरः || तर्जनीभ्यां नमः || ॐ क्षं बीजरूपीकर्णौ मे सीताशोकविनाशनः | मध्यमाभ्यां नमः ||ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मण प्राणदायकः | अनामिकाभ्यां नमः | ॐ वं बीजार्थश्च कण्ठं मे अक्षयक्षयकारकः | कनिष्ठिकाभ्यां नमः | ॐ रां बीजवाच्यो हृदयं पातु मे कपिनायकः | करतल-करपृष्ठाभ्यां नमः || एवं हृदयादि विन्यस्य || ध्यानं पूर्ववत् ||
होमः- ॐ स्फ्रें बीजशक्तिधृक् पातु शिरो मे पवनात्मजः | क्रौं बीजात्मा नयनयोः पातु मां वानरेश्वरः ||ॐ क्षं बीजरूपी कर्णौ मे सीताशोकविनाशनः | ॐ ग्लौं बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः || ॐ वं बीजार्थश्च कण्ठं मे अक्षयक्षयकारकः | ॐ रां बीजवाच्यो हृदयं पातु मे कपिनायकः || ॐ वं बीजकीर्तितः पातु बाहू मे चाऽऽञ्जनीसुतः | ॐ ह्रां बीजं राक्षसेन्द्रस्य दर्पहा पातु चोदरम् || ॐ सौं बीजमयो मध्यं मे पातु लङ्काविदाहकः | ॐ ह्रीं बीजधरो गुह्यं मे पातु देवेन्द्रवन्दितः || ॐ रं बीजात्मा सदा पातु चोरू मे वार्धिलङ्घनः | सुग्रीवसचिवः पातु जानुनी मे मनोजवः || आपादमस्तकं पातु रामदूतो महाबलः | पूर्वे वानरवक्त्रो मां चाऽग्नेय्यां क्षत्रियान्तकृत् || दक्षिणे नारसिंहस्तु नैर्ऋत्यां गणनायकः | वारुण्यां दिशि मामव्यात् खगवक्त्रो हरीश्वरः || वायव्यां भैरवमुखः कौबेर्याँ पातु मे सदा | क्रोडास्यः पातु मां नित्यं सौम्यरूपी महाभुजः-स्वाहा || इति सार्ध नवमंत्रान्ते यव, तिल, गुग्गुलमिश्रद्रव्येण अन्वाधानोक्त संख्यया ||
नियत-संख्याक होमान्ते फलश्रुतिं पठेत् -> अगस्त्यसंहिताोक्त एकादशमुख हनुमत्कवचे दृष्टव्यः || (हनुमद् वड्वानल याग एवं हनुमद् सहस्र नामयागे पूर्वोक्तऽन्वाधानानुसारेण होमः)| आवरणदेवता(प्रयोगोक्त),पीठदेवता,सर्वतोभद्रमंडल समन्वित एकलिंगतो भद्रमंडलदेवता, वास्तु,योगिनी, क्षेत्रपालपीठदेवतानां होमः अन्वाधानानुसारेण समाप्य / फलहोमः/ गुग्गुल होमः/ सर्षप होमः/लक्ष्मीहोमः/ व्याहृतिहोमः/ स्विष्टकृतादि शेषं समापयेत् ||
ॐस्वस्ति || पु ह शास्त्री.उमरेठ ||
Comments
Post a Comment