वैध्व्य दोष परिहार
॥ अथ शीतलासप्तमीव्रतम् ॥ 👉वैधव्यदोष परिहार के लिए अपने आचार्यों से मार्गदर्शन प्राप्त करे। श्रावणशुक्ल सप्तम्यां शीतलाव्रतम् ॥ तच्च मध्याह्रव्यापिन्यां कार्यम् ।। अथ व्रतविधिः स्कान्दे ॥ #संकल्प -:- अद्येत्यादि० ममेह जन्मनि जन्मान्तरे च अवैधव्यप्राप्तये अखंडितभर्तृसंधोगपुत्रपौत्रादिधनधान्यप्राप्तये च शीतलाव्रतं तदङ्गन्त्वेन पूजनं च करिष्ये ॥ इति संकल्प्य तत्र अष्ट- दलयुते पीठे अत्रणं कलशं संस्थाप्य तदुपरि सौवर्णादिनिर्मितां शीतला- मूर्ति संस्थाप्य ध्यायेत् ।। वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् ॥ मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ।। शीतले दह मे पापं पुत्रसौख्य- फलप्रदे ॥ धनधान्यप्रदे देवि पूजां स्वीकुरु ते नमः ।। " शीतलादेव्यै नमः " ध्यायामि ॥ इति शीतलादेवीं ध्यात्वा ततः " ह्रींशीतलायै नमः” इति मंत्रेणावाहनादिदीपान्तोपचारैः संपूज्य समीपे दधिघृत- मिश्रपक्वान्ननैवेद्यं निधाय " शीतले पंचपक्वान्नदध्योदनयुतं शुभम् ।। नैवेद्यं गृह्यतां देवि घृतमिश्र च सुंदरि" ।॥ इति नैवेद्यं निवेद्य नीराजनं प्रदक्षिणां कृत्वा प्रार्थयेत् ।। " शीतले दह मे पापं पुत्र...