वैध्व्य दोष परिहार

 ॥ अथ शीतलासप्तमीव्रतम् ॥
👉वैधव्यदोष परिहार के लिए अपने आचार्यों से मार्गदर्शन प्राप्त करे।
श्रावणशुक्ल सप्तम्यां शीतलाव्रतम् ॥ तच्च मध्याह्रव्यापिन्यां कार्यम् ।। 
अथ व्रतविधिः स्कान्दे ॥ 
#संकल्प -:- अद्येत्यादि० ममेह जन्मनि जन्मान्तरे च अवैधव्यप्राप्तये अखंडितभर्तृसंधोगपुत्रपौत्रादिधनधान्यप्राप्तये च शीतलाव्रतं तदङ्गन्त्वेन पूजनं च करिष्ये ॥ इति संकल्प्य 
तत्र अष्ट- दलयुते पीठे अत्रणं कलशं संस्थाप्य तदुपरि सौवर्णादिनिर्मितां शीतला- मूर्ति संस्थाप्य ध्यायेत् ।। वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् ॥ मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ।। शीतले दह मे पापं पुत्रसौख्य- फलप्रदे ॥ धनधान्यप्रदे देवि पूजां स्वीकुरु ते नमः ।। " शीतलादेव्यै नमः " ध्यायामि ॥ इति शीतलादेवीं ध्यात्वा ततः " ह्रींशीतलायै नमः” इति 
मंत्रेणावाहनादिदीपान्तोपचारैः संपूज्य समीपे दधिघृत- मिश्रपक्वान्ननैवेद्यं निधाय " शीतले पंचपक्वान्नदध्योदनयुतं शुभम् ।। नैवेद्यं गृह्यतां देवि घृतमिश्र च सुंदरि" ।॥ इति नैवेद्यं निवेद्य नीराजनं प्रदक्षिणां कृत्वा प्रार्थयेत् ।। " शीतले दह मे पापं पुत्रपौत्रसुखप्रदे। धन- धान्यप्रदे देवि पूजां गृह्ण नमोऽस्तु ते " ॥ इति संर्थ्य ॥ ( अत्र सति समये शीतलास्तोत्रेण प्रार्थना कर्तव्या वाऽनन्तरं पाठःकार्यः ।।) विशेषार्घः ।। शीतले शीतलाकारे अवैधव्यसुतमदे || श्रवण- स्यासिते पले गृहाणाय नमोस्तु ते ॥ इत्यत्र्य समर्थ ॥ व्रतसंपूर्णफला- वाप्तये ब्राह्मणाय वायनं दद्यात् ।। तत्र मंत्रः ।॥ दध्यन्नं दक्षिणायुक्तं वायनं फलसंयुतम् ॥ शीतळाप्रीतये तुभ्यं ब्राह्मणाय ददाम्यहम् ॥ अनेन पूजनेन शीतलादेवी प्रीयताम् ॥ इति शीतलाव्रतम् ॥
१ कुंसे संस्थापयेद्देवीं पूजयेन्नाममंत्रतः॥ 
२ श्रीगणेशाय नमः ॥ ॥ 
👉(अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः ॥ अनुष्टुप् छंदः ॥ शीतला देवता । लक्ष्मीः बीजम् ॥ भवानी शक्तिः ।॥ सर्वविस्फोटकनिवृत्तये जपे विनियोगः) 
॥ ईश्वर उवाच ॥ 
वंदेऽहं शीतलां देीं रासभस्थां दिगम्बराम् ॥ मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ १ ॥ वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् ॥ यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ॥ विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥ वस्त्वामुद‌कमध्ये तु धृत्वा पूजयते नरः ॥ विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ 11 शीतले ज्वरदग्धस्य पूतिगंधयुतस्य पूतिगं च || प्रनष्टचक्षुषः पुंसस्त्वामाडुर्जीवनौषधम् ॥ ५ ॥ शीतले तनुजान्रोगान्नृणां हरसि दुस्त्यजान् ।। विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी ॥ ६ ॥ गल-गंडग्रहा रोगा ये चान्ये दारुणा नृणाम् ॥ त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥ ७ ॥ न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते ॥ त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥ मृणालतंतु- सदृशीं नाभिहन्मध्यसंस्थिताम् ॥ यस्त्वां संचितयेद्देवि तस्य मृत्युनं जायते ॥ ९ ॥ अष्टकं शीतलादैव्यौं यो नरः प्रपठेत्सदा ॥ विस्फोटकभयं घोरं गृष्हे तस्य न जायते ॥ १० ॥ श्रोतव्यं पठितव्यं च श्रद्धाभक्ति- समन्वितैः ॥ उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥ शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ॥ शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२ ॥ रासभो गर्दभश्चैव खरो वैशाखनंदनः ॥ शीतलावाहनश्चैव दूर्वाकंद‌निकंतनः ॥ १३ ॥ एतानि खरनामानि शीतलाने तु यः पठेत् ॥ तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४ ॥ शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् ॥ दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥१५।।
१ भींत उपर । २ केचित् कृष्णपक्षे कुर्वन्ति । ३ माधवीये हारितः - पूजाव्रतेषु सर्वेषु मध्याह्लव्यापिनी तिथिः ।।
॥ इति श्रीस्कंदपुराणे शीतलाष्टकस्तोत्रं संपूर्णम् ॥
पं० धवलकुमार शास्त्री श्री वैदिक ब्राह्मण अहमदाबाद गुजरात
x

Comments

Popular posts from this blog

Copyright

सूर्य संबंधित कार्य

भूत प्रेत